Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 128 / 4

यश्च॑ प॒णि रघु॑जि॒ष्ठ्यो यश्च॑ दे॒वाँ अदा॑शुरिः। धीरा॑णां॒ शश्व॑ताम॒हं तद॑पा॒गिति॑ शुश्रुम ॥ 4॥

Veda : Atharvaveda | Kand : 20 | Sukta : 128 | Paryay : | Mantra No : 4

In Hindi:

ऋषि : | देवता : प्रजापतिरिन्द्रो वा | छन्द : अनुष्टुप् | स्वर :

विषय : मनुष्य के कर्तव्य का उपदेश।

पदपाठ : य: । च॑ । प॒णि । रघु॑जि॒ष्ठ्य: । य: । च॑ । दे॒वान् ।‍ अदा॑शुरि: ॥ धीरा॑णा॒म् । शश्व॑ताम् । अ॒हम् । तत् । अ॑पा॒क् । इति॑ । शुश्रुम ॥१२८.४॥

पदार्थ : (यः) जो मनुष्य (पणि) कुव्यवहारी (रघुजिष्ठ्यः) अत्यन्त हलका है, (च च) और (यः) जो (देवान्) विद्वानों को (अदाशुरिः) नहीं दान देनेवाला है, (तत्) वह (शश्वताम्) सब (धीराणाम्) धीर पुरुषों में (अपाक्) दूर रहने योग्य है−(इति) ऐसा (अहम्) हमने (शुश्रुम) सुना है ॥४॥"

भावार्थ :

टिप्पणी :४−(यः) (च) (पणि) विभक्तेर्लुक्। पणिः। कुव्यवहारी (रघुजिष्ठ्यः) लघुज्येष्ठ्यः, छान्दसं रूपम्, लघु+ज्येष्ठ-भावे यत्। लघुषु निःसारेषु ज्येष्ठ्यम् अतिशयेन वर्धनं यस्य सः। अतिशयेन निःसारः (यः) (च) (देवान्) विदुषः प्रति (अदाशुरिः) अ+दाशृ दाने-उरिन् प्रत्ययः। अदानशीलः (धीराणाम्) बुद्धिमतां मध्ये (शश्वताम्) बहूनाम्। सर्वेषाम् (अहम्) बहुवचनस्यैकवचनम्। वयम् (तत्) सः (अपाक्) दूरे गमनीयः (इति) एवम् (शुश्रुम) वयं श्रुतवन्तः ॥