Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 137 / 11

त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे॑ण वज्रिन्धृषि॒तो ज॑घन्थ। त्वं शुष्ण॒स्यावा॑तिरो॒ वध॑त्रै॒स्त्वं गा इ॑न्द्र॒ शच्येद॑विन्दः ॥ 11॥

Veda : Atharvaveda | Kand : 20 | Sukta : 137 | Paryay : | Mantra No : 11

In Hindi:

ऋषि : तिरश्चीराङ्गिरसो द्युतानो वा | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर :

विषय : राजा और प्रजा के कर्तव्य का उपदेश।

पदपाठ : त्वम् । ह॒ । त्यत् । अ॒प्र॒ति॒ऽमा॒नम् । ओज॑: । वज्रे॑ण । व॒ज्रि॒न् । धृ॒षि॒त: । ज॒घ॒न्थ॒ ॥ त्वम् । शुष्ण॑स्य । अव॑ । अ॒ति॒र॒: । वध॑त्रै: । त्वम् । गा: । इ॒न्द्र॒ । शच्या॑ । इत् । अ॒वि॒न्द॒: ॥१३७.११॥

पदार्थ : (वज्रिन्) हे वज्रधारी (इन्द्र) इन्द्र ! [महाप्रतापी राजन्] (धृषितः) निर्भय (त्वम्) तूने, (त्वम्) तूने (ह) ही (शुष्णस्य) सुखानेवाले वैरी के (त्यत्) उस (अप्रतिमानम्) अनुपम (ओजः) बल को (वज्रेण) वज्र से और (वधत्रैः) हथियारों से (जघन्थ) नष्ट कर दिया है और (अव अतिरः) नीचे किया है, (त्वम्) तूने (गाः) उसकी भूमियों को (शच्या) अपनी बुद्धि से (इत्) ही (अविन्दः) पाया है ॥११•॥"

भावार्थ :

टिप्पणी :११−(त्वम्) (ह) एव (त्यत्) तत्। प्रसिद्धम् (अप्रतिमानम्) प्रतिमानमुपमा। निरुपमम् (ओजः) बलम् (वज्रेण) आयुधेन (वज्रिन्) हे वज्रवन् (धृषितः) धृष्टः। निर्भयः (जघन्थ) हन्तेर्लिट्। हतवान् नाशितवानसि (त्वम्) (शुष्णस्य) शोषकस्य शत्रोः (अव अतिरः) अवतारितवानसि। नीचैः कृतवानसि (वधत्रैः) अमिनक्षियजिवधि०। उ० ३।१०। वध संयमने-अत्रन्, यद्वा, हन हिंसागत्योः-अत्रन्, वधादेशः। संयमनसाधनैः हननसाधनैर्वा आयुधैः (त्वम्) (गाः) शत्रुभूमीः (इन्द्र) महाप्रतापिन् राजन् (शच्या) स्वप्रज्ञया (इत्) एव (अविन्दः) अलभथाः ॥