Samveda/171
सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम्। सनिं मेधामयासिषम्...॥१७१
Veda : Samveda | Mantra No : 171
In English:
Seer : medhaatithiH kaaNvaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH
Subject : English Translation will be uploaded as and when ready.
Verse : sadasaspatimadbhuta.m priyamindrasya kaamyam . sani.m medhaamayaasiSham.171
Component Words : sadasaH. patim. adbhutam.at .bhutam. priyam .indrasya. kaamyam. sanim. medhaam . ayaasiSham. .
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : मेधातिथिः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः
विषय : अगले मन्त्र में परमात्मा, सभाध्यक्ष राजा और आचार्य से मेधा की याचना की गयी है।
पदपाठ : सदसः। पतिम्। अद्भुतम्।अत् ।भुतम्। प्रियम् ।इन्द्रस्य। काम्यम्। सनिम्। मेधाम् । अयासिषम्। ७।
पदार्थ : प्रथम—परमात्मा के पक्ष में। मैं (अद्भुतम्) आश्चर्यमय गुण-कर्म-स्वभाववाले, (इन्द्रस्य) शरीर के अधिष्ठाता जीवात्मा के (प्रियम्) प्रिय, (काम्यम्) उपासकों के स्पृहणीय, (सनिम्) कृत पाप-पुण्य-रूप कर्मों के फलप्रदाता (सदसः पतिम्) हृदयरूप अथवा ब्रह्माण्डरूप यज्ञसदन के स्वामी परमात्मा से (मेधाम्) धारणावती बुद्धि को (अयासिषम्) माँगता हूँ ॥द्वितीय—सभाध्यक्ष के पक्ष में। मैं (अद्भुतम्) अन्यों की अपेक्षा विशिष्ट गुण-कर्म-स्वभाववाले, इसीलिए (इन्द्रस्य) परमात्मा के (प्रियम्) प्रिय, (काम्यम्) सब प्रजाजनों द्वारा चाहने योग्य, (सनिम्) राष्ट्र में धन का संविभाग करनेवाले, प्रजाओं को सत्कर्मों का पुरस्कार देनेवाले और असत्कर्मों का यथायोग्य दण्ड देनेवाले (सदसः पतिम्) राष्ट्रसभा के अध्यक्ष राजा से (मेधाम्) विद्याप्रचार और धन की (अयासिषम्) याचना करता हूँ ॥तृतीय—आचार्य के पक्ष में। मैं (अद्भुतम्) ज्ञान-विज्ञान के अद्भुत भण्डार, (इन्द्रस्य) विद्याप्रचारक राजा के (प्रियम्) प्रिय, (काम्यम्) सब विद्यार्थियों द्वारा चाहने योग्य, (सनिम्) विविध विद्याओं और व्रतों के दाता (सदसः पतिम्) विद्यार्थी-कुल के अध्यक्ष आचार्य से (मेधाम्) विद्याबोध की (अयासिषम्) याचना करता हूँ ॥७॥इस मन्त्र में श्लेषालङ्कार है ॥७॥
भावार्थ : जो मनुष्य अद्भुत गुण-कर्म-स्वभाववाले, अद्भुत ज्ञानविज्ञान की राशि, न्यायकारी, प्रिय परमात्मा, सभाध्यक्ष राजा और आचार्य की शरण में जाते हैं, वे मेधावी, शास्त्रवेत्ता, पुण्यकर्ता और धनवान् होकर सुखी होते हैं ॥७॥
In Sanskrit:
ऋषि : मेधातिथिः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः
विषय : अथ परमात्मानं सभाध्यक्षं राजानम् आचार्यं च मेधां याचमान आह।
पदपाठ : सदसः। पतिम्। अद्भुतम्।अत् ।भुतम्। प्रियम् ।इन्द्रस्य। काम्यम्। सनिम्। मेधाम् । अयासिषम्। ७।
पदार्थ : प्रथमः—परमात्मपरः। अहम् (अद्भुतम्२) आश्चर्यमयगुणकर्मस्वभावम्, (इन्द्रस्य) शरीराधिष्ठातुर्जीवात्मनः (प्रियम्) प्रेमास्पदम्, (काम्यम्) उपासकानां स्पृहणीयम्, (सनिम्३) कृतानां पापपुण्यरूपाणां कर्मणां फलप्रदातारम्। षण सम्भक्तौ, षणु दाने वा धातोः 'खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचरिभ्यश्च' उ० ४।१४ इत्यनेन इः प्रत्ययः. (सदसः पतिम्) हृदयरूपस्य ब्रह्माण्डरूपस्य वा यज्ञसदनस्य स्वामिनं परमात्मानम्। षष्ठ्याः 'पतिपुत्रपृष्ठपारपदपयस्पोषेषु' अ० ८।३।५३ इति विसर्जनीयस्य सत्वम्। (मेधाम्) धारणावतीं बुद्धिम् (अयासिषम्) याचे। निघण्टौ (३।१९), 'यामि' इत्यस्य याच्ञाकर्मसु पाठात् या धातुर्याचनार्थोऽपि विज्ञेयः। लडर्थे लुङ् ॥अथ द्वितीयः—सभाध्यक्षपरः। अहम् (अद्भुतम्) इतरापेक्षया विशिष्टगुणकर्मस्वभावम्, अत एव (इन्द्रस्य) परमात्मनः (प्रियम्) स्नेहास्पदम्, (काम्यम्) सर्वैः प्रजाजनैः स्पृहणीयम्, (सनिम्) राष्ट्रे धनस्य संविभक्तारं, प्रजाभ्यः सत्कर्मणां पुरस्कारदातारम्, असत्कर्मणां च यथायोग्यं दण्डदातारं च (सदसः पतिम्४) राष्ट्रसभाया अध्यक्षं राजानाम् (मेधाम्) बुद्धिम् विद्याप्रचारमित्यर्थः, धनं च। मेधा मतौ धीयते। निरु० ३।१९। मेधा इति धननामसु पठितम्। निघं० २।१०। (अयासिषम्) याचे ॥अथ तृतीयः—आचार्यपरः। अहम् (अद्भुतम्) ज्ञानविज्ञानयोः अपूर्वं निधिम्, (इन्द्रस्य) विद्याप्रचारकस्य राज्ञः (प्रियम्) प्रेमार्हम्, (काम्यम्) सर्वैर्विद्यार्थिभिः स्पृहणीयम्, (सनिम्) विविधविद्यानां व्रतानां च दातारम् (सदसः पतिम्) विद्यार्थिकुलस्याध्यक्षम् आचार्यम् (मेधाम्) विद्याबोधम् (अयासिषम्) याचे ॥७॥५अत्र श्लेषालङ्कारः ॥७॥
भावार्थ : ये मनुष्या अद्भुतगुणकर्मस्वभावम् अद्भुतज्ञानविज्ञानराशिं न्यायकारिणं प्रियं परमात्मानं, सभाध्यक्षं राजानम्, आचार्यं चोपगच्छन्ति ते मेधाविनः शास्त्रज्ञाः पुण्यकर्त्तारो धनवन्तश्च भूत्वा सुखिनो भवन्ति ॥७॥
टिप्पणी:१. ऋ० १।१८।६, देवता सदसस्पतिः, य० ३२।१३ ऋषिः मेधाकामः, अन्ते 'स्वाहा' इत्यधिकम्।२. इदमपि इतरद् अद्भुतम् अभूतमिव—इति निरु० १।६। अत् भुतम् इति पदकारः। अत् पूर्वाद् भवतेरद्भुतः—इति भ०। अदि भुवो डुतच् उ० ५।१। अनेन भू धातोः अदि उपपदे डुतच् प्रत्ययः—इति ऋ० १।१८।६ भाष्ये—द०।३. (सनिम्) पापपुण्यानां विभागेन फलदातारम् इति ऋ० १।१८।६ भाष्ये, '(सनिम्) सनन्ति संविभजन्ति सत्यासत्ये यया ताम् मेधाम् संगतां प्रज्ञाम्' इति च य० ३२।१३ भाष्ये—द०। सनिं निधानम्। कस्य ? सामर्थ्याद् धनस्य—इति वि०। संभजनीयां दात्रीं फलानां, मेधां बुद्धिम्। सनिमिति मेधाविशेषणम्, सन्या मेधया इति बहुशः दर्शनात्—इति भ०। सनिं धनस्य दातारं (सदसस्पतिम्)—इति सा०।४. (सदसः) सीदन्ति विद्वांसो धार्मिका न्यायाधीशाः यस्मिंस्तत् सदः सभा तस्य, अत्र अधिकरणे असुन् (पतिम्) स्वामिनम् इति ऋ० १।१८।६ भाष्ये—द०।५. दयानन्दर्षिणा मन्त्रोऽयं ऋग्भाष्ये परमेश्वरपक्षे सभापतिपक्षे च, यजुर्भाष्ये च परमात्मपक्षे व्याख्यातः।