Samveda/237
तरोभिर्वो विदद्वसुमिन्द्र सबाध ऊतये। बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम्॥२३७
Veda : Samveda | Mantra No : 237
In English:
Seer : kali praagaathaH | Devta : indraH | Metre : bRRihatii | Tone : madhyamaH
Subject : English Translation will be uploaded as and when ready.
Verse : tarobhirvaa vidadvasumindra.m sabaadha uutaye . bRRihadgaayantaH sutasome adhvare huve bhara.m na kaariNam.237
Component Words : tarobhiH . vaH. vidadvasum.vidat.vasum. indram. sabaadhaH .sa.baadhaH. uutaye. bRRihat . gaayantaH . sutasome .suta.some. adhvare. huve. bharam. na. kaariNam . .
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : कलि प्रागाथः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः
विषय : अगले मन्त्र में पुनः परमेश्वर को स्मरण-योग्य कहा गया है।
पदपाठ : तरोभिः । वः। विदद्वसुम्।विदत्।वसुम्। इन्द्रम्। सबाधः ।स।बाधः। ऊतये। बृहत् । गायन्तः । सुतसोमे ।सुत।सोमे। अध्वरे। हुवे। भरम्। न। कारिणम् ।५ ।
पदार्थ : हे साथियो ! (वः) तुम लोग (सबाधः) जब बाधाओं से आक्रान्त होओ तब (ऊतये) रक्षा के लिए (सुतसोमे) जिसमें श्रद्धा और कर्मरूप सोम का निष्पादन किया गया है, ऐसे (अध्वरे) हिंसारहित जीवन-यज्ञ में (तरोभिः) वेगों और बलों के साथ (विदद्वसुम्) ऐश्वर्य प्राप्त करानेवाले (इन्द्रम्) परमेश्वर के (बृहत्) बहुत अधिक (गायन्तः) गीत गाओ। मैं भी (भरम् न) कुटुम्ब का भरण-पोषण करनेवाले गृहपति के समान (कारिणम्) कर्मशील उस परमेश्वर का (हुवे) आह्वान करता हूँ ॥५॥इस मन्त्र में उपमालङ्कार है ॥५॥
भावार्थ : जब-जब मनुष्य अपने जीवन में विघ्न-बाधाओं से पीड़ित होते हैं, तब-तब उन्हें परमेश्वर का स्मरण करना चाहिए। स्मरण करने पर वह उन्हें पुरुषार्थ में और कर्मयोग में प्रवृत्त करता है। जैसे कोई गृहपति कर्मपरायण होकर ही कुटुम्ब के भरण-पोषण में समर्थ होता है, वैसे ही परमेश्वर भी कर्मपरायण होकर ही विश्व को धारण करता है और सब उपासकों को भी कर्मयोग में प्रेरित करता है ॥५॥
In Sanskrit:
ऋषि : कलि प्रागाथः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः
विषय : अथ पुनः परमेश्वरं स्मरणीयमाह।
पदपाठ : तरोभिः । वः। विदद्वसुम्।विदत्।वसुम्। इन्द्रम्। सबाधः ।स।बाधः। ऊतये। बृहत् । गायन्तः । सुतसोमे ।सुत।सोमे। अध्वरे। हुवे। भरम्। न। कारिणम् ।५ ।
पदार्थ : हे सखायः ! (वः) यूयम् (सबाधः२) बाधाभिराक्रान्ताः सन्तः। बाधते इति बात्, बाधृधातोः क्विप्। बाधा बाधया सहिताः सबाधः। (ऊतये) रक्षायै (सुतसोमे) सुतः अभिषुतः सोमः श्रद्धारसः कर्मरसश्च यस्मिन् तथाविधे (अध्वरे) हिंसारहिते जीवनयज्ञे (तरोभिः) वेगपूर्वकं बलपूर्वकं च। तरस् इति वेगवाचकं लोके प्रसिद्धम्। बलनाम। निघं० २।९। (विदद्वसुम्३) वेदयद्वसुम् भौतिकाध्यात्मिकैश्वर्यप्रदातारम् (इन्द्रम्) परमेश्वरम् (बृहत्) प्रचुरम् (गायन्तः) गानविषयीकुर्वन्तः भवत। अहमपि (भरम् न) कुटुम्बभरणकर्त्तारं गृहपतिमिव (कारिणम्४) कर्मयोगिनं तम् इन्द्रं परमेश्वरम्। कर्तुं शीलं यस्य स कारी तम्। डुकृञ् करणे धातोश्छन्दस्युपपदाभावेऽपि ताच्छील्ये णिनिर्विज्ञेयः। (हुवे) आह्वयामि ॥५॥अत्रोपमालङ्कारः ॥५॥
भावार्थ : यदा यदा मनुष्याः स्वजीवने विघ्नबाधाभिः पीड्यन्ते तदा तदा तैः परमेश्वरः स्मरणीयः। स्मृतः स तान् पुरुषार्थे कर्मयोगे च प्रवर्तयति। यथा कश्चिद् गृहपतिः कर्मपरायण एव सन् कुटुम्बभरणक्षमो जायते, तथैव परमेश्वरोऽपि कर्मपरायण एव सन् विश्वं बिभर्ति, सर्वानुपासकाँश्चापि कर्मयोगे प्रेरयति ॥५॥
टिप्पणी:१. ऋ० ८।६६।१, साम० ६८७।२. सबाधः मदीया ऋत्विजः—इति वि०। सबाधमानाः परस्परम्, यद्वा बाधसहिताः, शत्रुभिः बाध्यमानाः—इति भ०। बाधासहिताः—इति सा०।३. विद्ल्रेर्लाभार्थस्येदं रूपम्। विदितं धनं येन स विदद्वसुः तम्। आत्मीर्यर्बलैः शत्रुधनानामपहर्तारमित्यर्थः—इति वि०। लब्धवन्तं धनानि—इति भ०। वेदयद्वसुम् धनवेदकम्—इति सा०।४. करोतीति सन्निधानात् संग्रामम्। एतदुक्तं भवति, यथा संग्रामे योद्धा प्रतियोद्धारं महता यत्नेन आह्वयति तद्वदाह्वयन्तीत्यर्थः—इति वि०। भरं न भरन्तमिव बलवन्तमिव कारिणम् उपकारिणं योद्धारम्—इति भ०। भरं न भर्तारं कुटुम्बपोषकं कारिणं स्वहितकरणशीलम् यथा स्वहितकरणायाह्वयन्ति पुत्रादयः तद्वत्—इति सा०।