Samveda/248
त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः। त्वं वृत्राणि हस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः॥२४८
Veda : Samveda | Mantra No : 248
In English:
Seer : nRRimedha purumedhaavaa~Ngirasau | Devta : indraH | Metre : bRRihatii | Tone : madhyamaH
Subject : English Translation will be uploaded as and when ready.
Verse : tvamindra yashaa asyRRijiiShii shavasaspatiH . tva.m vRRitraaNi ha.m syapratiinyeka itpurvanuttashcharShaNiidhRRitiH.248
Component Words : tvam . indra .yashaaH. asi . RRijiiShii. shavasaH.patiH. tvam. vRRitraaNi .h.Nsi. apratiini.a.pratiini. ekaH. it. puru. anuttaH.a.nuttaH. charShaNiidhRRitiH.charShaNi.dhRRitiH. .
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : नृमेध पुरुमेधावाङ्गिरसौ | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः
विषय : अगले मन्त्र में इन्द्र नाम से परमात्मा और राजा की महिमा वर्णित की गयी है।
पदपाठ : त्वम् । इन्द्र ।यशाः। असि । ऋजीषी। शवसः।पतिः। त्वम्। वृत्राणि ।हँसि। अप्रतीनि।अ।प्रतीनि। एकः। इत्। पुरु। अनुत्तः।अ।नुत्तः। चर्षणीधृतिः।चर्षणि।धृतिः। ६।
पदार्थ : हे (इन्द्र) परमेश्वर अथवा राजन् ! (त्वम्) आप (यशाः) यशस्वी असि हो, (ऋजीषी) सरल धर्ममार्ग पर चलने के इच्छुक अथवा सरल गुण-कर्म-स्वभाववाले और (शवसः पतिः) बल के स्वामी हो। (त्वम्) आप (एकः इत्) अकेले ही (पुरु) बहुत से (अप्रतीनि) अप्रतिद्वन्द्वी (वृत्राणि) आन्तरिक व बाह्य पापी शत्रुओं को (हंसि) दण्डित या विनष्ट करते हो। (त्वम्) आप (अनुत्तः) किसी से बलात् प्रेरित किये बिना ही (चर्षणीधृतिः) मनुष्यों को धारण करनेवाले हो ॥६॥ इस मन्त्र में अर्थश्लेषालङ्कार है ॥६॥
भावार्थ : जैसे परमेश्वर यशस्वी, ऋजुमार्गगामी, बलवान्, पाप आदिकों का विनाशक, स्वयं शुभ कार्यों में प्रवृत्त होनेवाला तथा मनुष्यों का धारणकर्त्ता है, वैसे ही राजा और प्रजाजनों को होना चाहिए ॥६॥
In Sanskrit:
ऋषि : नृमेध पुरुमेधावाङ्गिरसौ | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः
विषय : अथेन्द्रस्य नाम्ना परमात्मनो नृपस्य च महिमानं वर्णयति।
पदपाठ : त्वम् । इन्द्र ।यशाः। असि । ऋजीषी। शवसः।पतिः। त्वम्। वृत्राणि ।हँसि। अप्रतीनि।अ।प्रतीनि। एकः। इत्। पुरु। अनुत्तः।अ।नुत्तः। चर्षणीधृतिः।चर्षणि।धृतिः। ६।
पदार्थ : हे (इन्द्र) परमेश्वर राजन् वा ! (त्वम् यशाः२) यशस्वी (असि) वर्तसे। (ऋजीषी३) ऋजु सरलं धर्ममार्गमिच्छतीति ऋजीषी सरलगुणकर्मस्वभावो वा (शवसः पतिः) बलस्य स्वामी च असि। (त्वम् एकः इत्) एकाकी एव (पुरु) पुरूणि बहूनि। पुरु इति बहुनाम। निघं० ३।१। ‘शेश्छन्दसि बहुलम्। अ० ६।१।७०’ इति शिलोपः। (अप्रतीनि४) अप्रतिद्वन्द्वीनि (वृत्राणि) आन्तरिकान् बाह्यांश्च पापाचारान् शत्रून् (हंसि) दण्डयसि विनाशयसि वा। त्वम् (अनुत्तः) न केनापि नुत्तः बलात् प्रेरितः सन्। नुत्तः इति नुद प्रेरणे इत्यस्य निष्ठायां रूपम्। (चर्षणीधृतिः) मनुष्याणां धारकश्चासि। चर्षणय इति मनुष्यनाम। निघं० २।३। ॥६॥ अत्र अर्थश्लेषालङ्कारः ॥६॥
भावार्थ : यथा परमेश्वरो यशस्वी, ऋजुमार्गसेवी, बलवान्, पापादीनां हन्ता, स्वयं शुभकार्येषु प्रवर्त्तमानो मानवानां धारकश्चास्ति तथैव राजभिः प्रजाभिश्च भवितव्यम् ॥६॥
टिप्पणी:१. ऋ० ८।९०।५। ‘शवसस्पते’ इति ‘इदनुत्ता चर्षणीधृता’ इति च पाठः। साम० १४११।२. यशः अन्नं कीर्तिः वा। अन्तर्णीतमत्वर्थं चेदं द्रष्टव्यम्। यशस्वी अन्नवान् कीर्तिमान् वा—इति वि०। यशस्वी असि, यशः शब्दान्मत्वर्थीयलोपः—इति भ०।३. (ऋजीषिणम्) ऋजूनां सरलानां धार्मिकाणां जनानामीषितुं शीलम् इति ऋ० ६।४२।२ भाष्ये, (ऋजीषी) सरलगुणकर्मस्वभावः इति ऋ० ६।२४।१ भाष्ये, (ऋजीषी) ऋजुनीतिः इति च ऋ० ४।१६।१। भाष्ये द०। यत् सोमस्य पूयमानस्यातिरिच्यते तदृजीषम्, अपार्जितं भवति इति यास्कः। निरु० ५।१२।४. अप्रतिद्वन्द्वीनि—इति भ०। बलिभिरप्यप्रतिगतानि—इति सा०।