Samveda/265
अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम्। इन्द्रं नाम श्रुत्य शाकिनं वचो यथा॥२६५
Veda : Samveda | Mantra No : 265
In English:
Seer : vatsaH | Devta : indraH | Metre : bRRihatii | Tone : madhyamaH
Subject : English Translation will be uploaded as and when ready.
Verse : abhi vo viiramandhaso madeShu gaaya giraa mahaa vichetasam . indra.m naama shrutya.m shaakina.m vacho yathaa.265
Component Words : abhi.vaH. viiram. andhasaH. madeShu .gaaya .giraa . mahaa. vichetasam.vi.chetasam. indram .naama. shrutyam. shaakinam. vachaH. yathaa..
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : वत्सः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः
विषय : अगले मन्त्र में परमेश्वर के स्तुतिगान की प्रेरणा की गयी है।
पदपाठ : अभि।वः। वीरम्। अन्धसः। मदेषु ।गाय ।गिरा । महा। विचेतसम्।वि।चेतसम्। इन्द्रम् ।नाम। श्रुत्यम्। शाकिनम्। वचः। यथा।३।
पदार्थ : हे उद्गाताओ ! (वः) तुम (अन्धसः) श्रद्धारस की (मदेषु) तृप्तियों में (महा) महती (गिरा) वेदवाणी से (वीरम्) विक्रमशाली अथवा शत्रुओं को प्रकम्पित करनेवाले, (विचेतसम्) विशिष्ट ज्ञान से पूर्ण, (श्रुत्यम्) श्रुतियों में प्रसिद्ध, (शाकिनम्) शक्तिमान् (इन्द्रं नाम) इन्द्र नामक परमेश्वर को (अभि) अभिलक्ष्य करके (वचः यथा) जैसा विधिवचन हो, उसके अनुसार (गाय) गाओ, सामगान करो ॥३॥
भावार्थ : काम, क्रोध आदि आन्तरिक शत्रुओं को तथा मानव-समाज में भ्रष्टाचारियों को अपनी वीरता से पराजित करनेवाले, सर्वज्ञ, वेदों में प्रसिद्ध, सब कार्य करने में समर्थ परमेश्वर की सबको सामगानपूर्वक अर्चना करनी चाहिए ॥३॥
In Sanskrit:
ऋषि : वत्सः | देवता : इन्द्रः | छन्द : बृहती | स्वर : मध्यमः
विषय : अथ परमेश्वरस्य स्तुतिगानाय प्रेरयन्नाह।
पदपाठ : अभि।वः। वीरम्। अन्धसः। मदेषु ।गाय ।गिरा । महा। विचेतसम्।वि।चेतसम्। इन्द्रम् ।नाम। श्रुत्यम्। शाकिनम्। वचः। यथा।३।
पदार्थ : हे उद्गातारः ! (वः) यूयम् (अन्धसः) श्रद्धारसस्य (मदेषु) तृप्तियोगेषु सत्सु (महा) महत्या। मह पूजायाम् धातोः क्विपि तृतीयैकवचने रूपम्, यद्वा महद्वाचिनो महशब्दात् स्त्रियामाकारान्तात् तृतीयैकवचने ‘सुपां सुलुक्० अ० ७।१।३९’ इति पूर्वसवर्णदीर्घ एकादेशः। (गिरा) वेदवाचा। (वीरम्) विक्रमशालिनम् यद्वा विशेषेण ईरयति कम्पयति शत्रूनिति वीरस्तम्। वीर विक्रान्तौ, यद्वा, विपूर्वः ईर गतौ कम्पने च। ‘वीरो वीरयत्यमित्रान्, वेतेर्वा स्याद् गतिकर्मणो, वीरयतेर्वा’। निरु० १।७। (विचेतसम्) विशिष्टज्ञानवन्तम्, (श्रुत्यम्) श्रुतिषु प्रसिद्धम्, (शाकिनम्२) शक्तिमन्तम् (इन्द्रं नाम) इन्द्रनामानं परमेश्वरम् (अभि) अभिलक्ष्य (वचः यथा३) यथा विधिवचनमस्ति तथा (गाय) गायत सामगानं कुरुत। अत्र वचनव्यत्ययः। यद्वा ‘लोपस्त आत्मनेपदेषु’ इत्यात्मनेपदे विहितस्तकारलोपो बाहुलकात् परस्मैपदेऽपि भवति ॥३॥इयं त्रिपदा पिपीलिकामध्या विराड् बृहती, आद्यन्तौ पादौ त्रयोदशाक्षरौ, मध्यमः पादोऽष्टाक्षरः ॥३॥
भावार्थ : कामक्रोधाद्यन्तःशत्रूणां मानवसमाजे भ्रष्टाचारिणां च स्ववीरतया पराजेता, सर्वज्ञः, श्रुतिषु ख्यातः, सर्वकर्मक्षमश्च परमेश्वरः सर्वैः सामगानपूर्वकमभ्यर्चनीयः ॥३॥
टिप्पणी:१. ऋ० ८।४६।१४, ऋषिः वशोऽश्व्यः।२. शाकिनम्। शाकनं शाकः, शक्तिरित्यर्थः। सा यस्यास्ति स शाकी। तं शाकिनम्, शक्तिमन्तमित्यर्थः—इति वि०। ३. श्रुत्यं वचो यथा। श्रुतौ भवं श्रुत्यम्। वचः वचनम्। यथा कश्चित् श्रुतौ भवं वचनं सत्यार्थत्वेन स्तौति तद्वत् स्तुहीत्यर्थः—इति वि०। वचः त्वदीयं यथा प्रवर्तते तथाभिगाय, न पुनरिन्द्रस्य गुणानुगुण्येन, तथा स्तोतुमशक्तेः—इति भ०। वाग् युष्मदीया यथा येन प्रकारेण प्रवर्तते गायत्र्या वा त्रिष्टुभा वा तथा गाय गायत स्तुतिं कुरुत—इति सा०।