Samveda/363
उक्थमिन्द्राय शस्यं वर्धनं पुरुनिःषिधे। शक्रो यथा सुतेषु नो रारणत्सख्येषु च॥३६३
Veda : Samveda | Mantra No : 363
In English:
Seer : madhuchChandaa vaishvaamitraH | Devta : indraH | Metre : anuShTup | Tone : gaandhaaraH
Subject : English Translation will be uploaded as and when ready.
Verse : ukthamindraaya sha.m sya.m vardhana.m puruniH Shidhe . shakro yathaa suteShu no raaraNatsakhyeShu cha.363
Component Words : uktham. indraaya. sh.Nsyam. vardhanam. puruniShidhe.puru.niShShidhe. shakraH. yathaa. suteShu . naH. raaraNat. sakhyeShu.sa.khyeShu. cha..
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : मधुच्छन्दा वैश्वामित्रः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : अगले मन्त्र में यह विषय है कि किस प्रयोजन से कैसा स्तोत्र इन्द्र के लिए उच्चारण करना चाहिए।
पदपाठ : उक्थम्। इन्द्राय। शँस्यम्। वर्धनम्। पुरुनिषिधे।पुरु।निष्षिधे। शक्रः। यथा। सुतेषु । नः। रारणत्। सख्येषु।स।ख्येषु। च।४।
पदार्थ : हमें पुत्र, स्त्री, मित्र आदियों सहित (पुरुनिष्षिधे) बहुतों को पाप-पंक से अथवा संकट से उबारनेवाले (इन्द्राय) परम उपदेशक परमात्मा के लिए, ऐसा (उक्थम्) स्तोत्र (शंस्यम्) गान करना चाहिए, जो (वर्धनम्) हम स्तोताओं को बढ़ानेवाला हो, (यथा) जिससे (शक्रः) वह सर्वशक्तिमान् परमात्मा (नः) हम स्तोताओं के (सुतेषु) पुत्रों को (सख्येषु च) और सखाओं को (रारणत्) अतिशय पुनः-पुनः प्रेरणात्मक उपदेश देता रहे ॥४॥
भावार्थ : स्तुति किया हुआ परमेश्वर स्तोताजनों को और उनके स्तोता पुत्र, मित्र आदि को पुरुषार्थ आदि की शुभ प्रेरणा और सदुपदेश देकर उनकी उन्नति करता है ॥४॥
In Sanskrit:
ऋषि : मधुच्छन्दा वैश्वामित्रः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : इन्द्राय केन प्रयोजनेन कीदृशं स्तोत्रं शंसनीयमित्याह।
पदपाठ : उक्थम्। इन्द्राय। शँस्यम्। वर्धनम्। पुरुनिषिधे।पुरु।निष्षिधे। शक्रः। यथा। सुतेषु । नः। रारणत्। सख्येषु।स।ख्येषु। च।४।
पदार्थ : अस्माभिः पुत्रकलत्रमित्रादिसहितैः (पुरुनिष्षिधे) पुरून् बहून् निष्षेधति निस्सारयति पापपङ्कात् सङ्कटाद् वा यस्तस्मै। पुरूपपदात् निस्पूर्वाद् गत्यर्थात् षिधु धातोः कर्तरि क्विप्। (इन्द्राय) परमोपदेशकाय परमात्मने, तादृशम् (उक्थम्) स्तोत्रम् (शंस्यम्) शंसनीयम्, यत् (वर्धनम्) स्तोतॄणामस्माकं वृद्धिकरं भवेत्, (यथा) येन (शक्रः) स सर्वशक्तिमान् परमात्मा (नः) स्तोतॄणाम् अस्माकम् (सुतेषु२) पुत्रकेषु (सख्येषु३ च) सखिषु च। सख्यं येषामस्तीति ते सख्याः ‘अर्शआदिभ्योऽच्। अ० ५।२।१२७’ इति मत्वर्थे अच् प्रत्ययः। (रारणत्४) अतिशयेन पुनः पुनः प्रेरणात्मकम् उपदेशं दद्यात्। शब्दार्थाद् रणधातोर्यङ्लुगन्ताल्लेटि रूपम् ॥४॥५
भावार्थ : स्तुतः परमेश्वरः स्तोतृभ्यो जनेभ्यः, स्तोतृभ्यस्तत्पुत्रमित्रादिभ्यश्च पुरुषार्थादेः सत्प्रेरणां सदुपदेशं च दत्त्वा तानुन्नयति ॥४॥
टिप्पणी:१. ऋ० १।१०।५।२. सुतेषु अभिषुतेषु सोमेषु—इति वि०। पुत्रेषु—इति सा०। उत्पादितेषु स्वकीयसन्तानेषु—इति ऋ० १।१०।५ भाष्ये द०।३. सखीनां कर्मसु भावेषु पुत्रस्त्रीभृत्यवर्गादिषु वा इति तत्रैव द०।४. रारणत् अतिशयेन उपदिशति। यङ्लुगन्तस्य रणधातोर्लेट्प्रयोगः—इति तत्रैव द०। रमेरेतद् रूपम्। छान्दसेन मकारस्य णत्वम्। अत्यर्थं रमते—इति वि०। भृशं रमते। रमेर्वर्णव्यत्ययः, रणिर्वा रमेरर्थे वर्तते। यथा रारणत् तथा शस्यम्—इति भ०। यथा येन प्रकारेण रारणत् अतिशयेन शब्दं कुर्यात् तथा शंस्यम्। अस्मदीयेन शस्त्रेण परितुष्ट इन्द्रः नोऽस्माकं पुत्रान् अस्मत्सख्यानि च बहुधा प्रशंसत्वित्यर्थः—इति सा०।५. दयानन्दर्षिरस्य मन्त्रस्य ऋग्भाष्ये इन्द्रशब्देन सर्वमित्रमैश्वर्येच्छुकं जीवात्मानं, शक्रशब्देन च सर्वशक्तिमन्तं जगदीश्वरं गृहीतवान्।