Samveda/458
अय सहस्रमानवो दृशः कवीनां मतिउज्योतिर्विधर्म। ब्रध्नः समीचीरुषसः समैरयदरेपसः स चेतसः स्वसरे मन्युमन्तश्चिता गोः॥४५८
Veda : Samveda | Mantra No : 458
In English:
Seer : gauraa.mgirasaH | Devta : suuryaH | Metre : ati jagatii | Tone : niShaadaH
Subject : English Translation will be uploaded as and when ready.
Verse : aya.m sahasramaanavo dRRishaH kaviinaa.m matirjyaatirvidharma . bradhnaH samiichiiruShasaH samairayadarepasaH sochetasaH svasare manyumantashchitaa goH.458
Component Words : ayam. sahasram. aanavaH. dRRishaH. kaviinaam. matiH. jyotiH. vidharma.vi.dharma. bradhnaH. samiichiiH.sam.iichiiH. uShasaH. sa.m. airayat. arepasaH.a.repasaH. sachetasaH.sa.chetasaH. svasare. manyumantaH. chitaaH. goH ..
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : गौरांगिरसः | देवता : सूर्यः | छन्द : अति जगती | स्वर : निषादः
विषय : अगले मन्त्र का देवता सूर्य है। आदित्य, परमेश्वर और आचार्य का वर्णन है।
पदपाठ : अयम्। सहस्रम्। आनवः। दृशः। कवीनाम्। मतिः। ज्योतिः। विधर्म।वि।धर्म। ब्रध्नः। समीचीः।सम्।ईचीः। उषसः। सं। ऐरयत्। अरेपसः।अ।रेपसः। सचेतसः।स।चेतसः। स्वसरे। मन्युमन्तः। चिताः। गोः ।२।
पदार्थ : (अयम्) यह सूर्य, परमेश्वर वा आचार्य (सहस्रम्) अकेला भी सहस्र के तुल्य, (आनवः) मनुष्यों के लिए हितकर, (दृशः) द्रष्टा अथवा दर्शन करानेवाला, (कवीनाम्) मेधावी विद्वानों का (मतिः) मतिप्रदाता, और (विधर्म ज्योतिः) विशेष धारक प्रकाश से युक्त है। (ब्रध्नः) महान् यह सूर्य, परमेश्वर वा आचार्य (समीचीः) सम्यक् गतिवाली, (अरेपसः) निर्मल (उषसः) उषाओं को अथवा ज्ञानदीप्तियों को (समैरयत्) भली-भाँति प्रेरित करता है, जिससे (स्वसरे) उज्ज्वल दिन अथवा दिन के समान उज्ज्वल विवेक के प्रकट हो जाने पर (सचेतसः) सहृदय जन (मन्युमन्तः) तेजयुक्त अथवा ब्रह्मवर्चस्वी होकर (गोः) किरणसमूह के अथवा वेदवाणी के (चिताः) ज्ञाता हो जाते हैं ॥२॥इस मन्त्र में श्लेषालङ्कार है। मतिः और ज्योतिः के अर्थ लक्षणा द्वारा क्रमशः मतिप्रदाता और ज्योतिष्मान् होते हैं। ‘तिर्, तिर्’, ‘समी, समै’ और ‘चेत, चिता’ में छेकानुप्रास तथा सकार, रेफ व तकार की पृथक्-पृथक् अनेक बार आवृत्ति में वृत्त्यनुप्रास अलङ्कार है ॥२॥
भावार्थ : जैसे सूर्य प्रकाशवती उषाओं को प्रेरित करता है, वैसे ही परमात्मा और आचार्य मनुष्यों में विद्या एवं विवेक की कान्तियों को उत्पन्न करते हैं ॥२॥
In Sanskrit:
ऋषि : गौरांगिरसः | देवता : सूर्यः | छन्द : अति जगती | स्वर : निषादः
विषय : अथ सूर्यो देवता। आदित्यं, परमेश्वरम्, आचार्यं च वर्णयति।
पदपाठ : अयम्। सहस्रम्। आनवः। दृशः। कवीनाम्। मतिः। ज्योतिः। विधर्म।वि।धर्म। ब्रध्नः। समीचीः।सम्।ईचीः। उषसः। सं। ऐरयत्। अरेपसः।अ।रेपसः। सचेतसः।स।चेतसः। स्वसरे। मन्युमन्तः। चिताः। गोः ।२।
पदार्थ : (अयम्) एष सूर्यः परमेश्वर आचार्यो वा (सहस्रम्) एकोऽपि सन् शक्त्या सहस्रतुल्यः (आनवः२) अनुभ्यो मनुष्येभ्यो हितः। अनवः इति मनुष्यनामसु पठितम्। निघं० २।३, तेभ्यो हितः। (दृशः) द्रष्टा दर्शयिता वा, (कवीनाम्) विदुषाम् (मतिः) मतिप्रदाता (विधर्म ज्योतिः) विशेषधारकप्रकाशश्च वर्तते। (ब्रध्नः) महान् एषः। ब्रध्न इति महन्नाम। निघं० ३।३। (समीचीः) सम्यगञ्चनाः, (अरेपसः) निर्मलाः (उषसः) प्रभातदीप्तीः ज्ञानदीप्तीर्वा (समैरयत्) सम्यक् प्रेरयति, येन (स्वसरे) उज्ज्वले दिवसे, दिवसवदुज्ज्वले विवेके वा जाते सति। स्वसराणि अहानि भवन्ति स्वयंसारीणि, अपि वा स्वः आदित्यो भवति स एनानि सारयति। निरु० ५।४। (सचेतसः) सहृदयाः जनाः (मन्युमन्तः) तेजोयुक्ताः ब्रह्मवर्चस्विनो वा सन्तः (गोः) किरणसमूहस्य वेदवाचो वा (चिताः) ज्ञातारः, भवन्तीति शेषः। चिती संज्ञाने धातोः ‘इगुपधज्ञाप्रीकिरः कः। अ० ३।१।१३५’ इति कः प्रत्ययः ॥२॥३अत्र श्लेषालङ्कारः। मतिः, ज्योतिः इत्यनयोः क्रमेण मतिप्रदातरि ज्योतिष्मति च लक्षणा। ‘तिर्, तिर्’, ‘समी, समै’, ‘चेत, चिता’ इत्यत्र छेकानुप्रासः, सकाररेफतकाराणां पृथक् पृथगसकृदावृत्तौ च वृत्त्यनुप्रासः ॥२॥
भावार्थ : यथा सूर्यः प्रकाशवतीरुषसः प्रेरयति तथैव परमेश्वर आचार्यश्च जनेषु विद्याविवेककान्तीर्जनयतः ॥२॥
टिप्पणी:१. अथ० ७।२२।१, २। ऋषिः ब्रह्मा, देवता ब्रध्नः। अयं सहस्रमा नो दृशे कवीनां मतिर्ज्योतिर्विधर्मणि ॥१॥ ब्रध्नः समीचीरुषसः समैरयन्। अरेपसः सचेतसः स्वसरे मन्युमत्तमाश्चिते गोः ॥२॥ इति पाठः।२. ‘सहस्रमानवः सहस्रसंख्याकाः मनुष्या यस्य सः। सहस्रसंख्याकैर्मनुष्यैरिवावस्थितै रश्मिभिर्युक्तः’ इति सायणीयं व्याख्यानं तु पदकारविरुद्धं ‘सहस्रम् आनवः’ इति पदपाठात्, स्वरविरुद्धं च।३. तेजस्विनः चन्द्रमःप्रभृतयः गोः आदित्यात् चिताः उपचिताः भवन्ति तेजसा—इति भ०। तेजस्विनश्चन्द्रमःप्रभृतयः गोः आदित्यस्य तेजसा चिताः अपचिताः भवन्ति, विगततेजस्का भवन्तीत्यर्थः—इति सा०।