Donation Appeal
Choose Mantra
Samveda/617

सहस्रशीर्षाः पुरुषः सहस्राक्षः सहस्रपात्। सर्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम्॥६१७

Veda : Samveda | Mantra No : 617

In English:

Seer : naaraayaNaH | Devta : puruShaH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : sahasrashiirShaa puruShaH sahasraakShaH sahasrapaat . sa bhuumi.m sarvato vRRitvaatyatiShThaddashaa~Ngulam.617

Component Words :
sahasrashiirShaaH.sahasra. shiirShaaH.puruShaH . sahasraakShaH.sahasra.akShaH. sahasrapaat.sahasra.paat. saH. bhuumim . sarvataH. vRRitvaa. ati.atiShThat.dashaa~Ngulam. dasha.a~Ngulam..

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : नारायणः | देवता : पुरुषः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अगली पाँच ऋचाओं का पुरुष देवता है। परम पुरुष परमात्मा का वर्णन करते हैं।

पदपाठ : सहस्रशीर्षाः।सहस्र। शीर्षाः।पुरुषः । सहस्राक्षः।सहस्र।अक्षः। सहस्रपात्।सहस्र।पात्। सः। भूमिम् । सर्वतः। वृत्वा। अति।अतिष्ठत्।दशाङ्गुलम्। दश।अङ्गुलम्।३।

पदार्थ : (पुरुषः) सबका अग्रनेता, सब जगत् में परिपूर्ण और सबका पालनकर्ता परमेश्वर (सहस्रशीर्षाः) सहस्रों सिरोंवाला अर्थात् अनन्तज्ञानी, (सहस्राक्षः) सहस्रों आँखोंवाला अर्थात् सर्वद्रष्टा, और (सहस्रपात्) सहस्रों पैरोंवाला अर्थात् सर्वत्र व्याप्त है। (सः) वह (भूमिम्) पृथिवी को (सर्वतः) सब ओर से (वृत्वा) घेरकर (दशाङ्गुलम्) दसों इन्द्रियों को (अति) अतिक्रान्त करके (अतिष्ठत्) स्थित है, अर्थात् दसों इन्द्रियों की पहुँच से परे है। कहा भी है—न वहाँ आँख की पहुँच है, न वाणी की, न मन की (केन उप० १।३) ॥३॥यास्काचार्य पुरुष शब्द का निर्वचन करते हुए लिखते हैं—पुरी में बैठने से या पुरी में शयन करने से पुरुष कहाता है (पुरिसद् या पुरिश=पुरुष) अथवा यह वृद्ध्यर्थक पूरी धातु से निष्पन्न हुआ है (पूरी आप्यायने)। अन्तःपुरुष परमात्मा को पुरुष इस कारण कहते हैं, क्योंकि वह सारे ब्रह्माण्ड को अपनी सत्ता से पूर्ण किये हुए है। कहा भी है, “जिससे अधिक पर या अपर कोई वस्तु नहीं है, जिससे अधिक अणु या महान् कोई वस्तु नहीं है, वह एक पुरुष परमेश्वर वृक्ष के समान निश्चल होकर अपने तेजःस्वरूप में स्थित है, उस पुरुष से यह सकल ब्रह्माण्ड परिपूर्ण है” (निरु० २।३) ॥इस मन्त्र में सहस्र सिरवाला होने आदि रूप तथा भूमि में सर्वत्र व्यापक होने रूप कारण के विद्यमान होते हुए भी इन्द्रियगोचर होने रूप कार्य की उत्पत्ति न होने से विशेषोक्ति अलङ्कार है ॥३॥

भावार्थ : सबको उचित है कि सर्वज्ञाता, सर्वद्रष्टा, सर्वव्यापक, सर्वत्र भूगोल को व्याप्त करके स्थित, तथापि वाणी, आँख, कान, हाथ, पैर आदि की पहुँच से परे विद्यमान परमपुरुष परमात्मा का साक्षात्कार करके अनन्त सुख का भोग करें ॥३॥


In Sanskrit:

ऋषि : नारायणः | देवता : पुरुषः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथ पञ्चानां पुरुषो देवता। परमपुरुषं परमात्मानं वर्णयति।

पदपाठ : सहस्रशीर्षाः।सहस्र। शीर्षाः।पुरुषः । सहस्राक्षः।सहस्र।अक्षः। सहस्रपात्।सहस्र।पात्। सः। भूमिम् । सर्वतः। वृत्वा। अति।अतिष्ठत्।दशाङ्गुलम्। दश।अङ्गुलम्।३।

पदार्थ : (पुरुषः) सर्वेषाम् अग्रणीः, सर्वस्मिन् जगति परिपूर्णः, सर्वेषां पालयिता वा परमेश्वरः। पुर अग्रगमने, पॄ पालनपूरणयोः इति वा धातोः ‘पुरः कुषन्’। उ० ४।७५ इति कुषन् प्रत्ययः। (सहस्रशीर्षाः) सहस्राणि असंख्यातानि शीर्षाणि शिर उपलक्षितानि ज्ञानानि यस्य सः। ‘शीर्षंश्छन्दसि’। अ० ६।१।६० इति शिरःशब्दपर्यायः शीर्षन् शब्दो वेदे प्रोक्तः, अत्र तस्य सान्तत्वम्। (सहस्राक्षः२) सहस्राणि (अक्षीणि) दर्शनसामर्थ्यानि यस्य सः। छान्दसः समासान्तोऽच् प्रत्ययः। (सहस्रपात्३) सहस्राणि असंख्याताः पादाः व्याप्तयः यस्य तादृशश्च विद्यते। संख्यासुपूर्वस्य। अ० ५।४।१४० इति पादस्यान्तलोपः। परमेश्वरस्य निरवयवत्वात् अत्र शीर्षशब्देन मस्तिष्कशक्तिः अक्षिशब्देन दर्शनशक्तिः, पादशब्देन च व्यापनशक्तिर्लक्ष्यते। सोऽनन्तबुद्धिरनन्तदर्शनः सर्वव्यापकश्च विद्यते इत्यर्थः। किञ्च (सः) असौ (भूमिम्) पृथिवीम् (सर्वतः) परितः (वृत्वा) आवृत्य (दशाङ्गुलम्४) दश च तानि अङ्गुलानि इन्द्रियाणि तेषां समाहारः दशाङ्गुलम् तत् (अति अतिष्ठत्) अतिक्रम्य तिष्ठति, दशेन्द्रियाणामगोचर इत्यर्थः। न तत्र चक्षुर्गच्छति न वाग् गच्छति नो मनः (केन० १।३) इत्यादिश्रुतेः ॥३॥५यास्काचार्यः पुरुषशब्दमेवं निर्वक्ति—पुरुषः पुरुषादः पुरिशयः पूरयतेर्वा। पूरयत्यन्तरित्यन्तः पुरुषमभिप्रेत्य। “यस्मात् परं नापरमस्ति किञ्चिद् यस्मान्नाणीयो न ज्यायोऽस्ति किञ्चिद्। वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्” इत्यपि निगमो भवति, इति। निरु० २।३ ॥अत्र सहस्रशीर्षत्वादिरूपस्य भूमौ सर्वत्र व्यापकत्वरूपस्य च कारणस्य सद्भावेऽपि इन्द्रियगोचरत्वरूपकार्यानुत्पत्तेर्विशेषोक्तिरलङ्कारः ॥३॥

भावार्थ : सर्वविद्यं सर्वद्रष्टारं सर्वव्यापकं सर्वतो भूगोलमावृत्य स्थितं तथापि वाक्चक्षुःश्रोत्रहस्तपादाद्यगोचरं परमपुरुषं परमात्मानं साक्षात्कृत्य सर्वैरनन्तसुखभोगः कार्यः ॥३॥

टिप्पणी:१. ऋ० १०।९०।१, ‘सहस्रशीर्षा’, इति ‘सर्वतो’ इत्यत्र च ‘विश्वतो’ इति पाठः। य० ३१।१, ‘सहस्रशीर्षा’ इति, ‘सर्वतो वृत्वा’ इत्यत्र च ‘सर्वतः स्पृत्वा’ इति पाठः। अथ० १९।६।१, ‘सहस्रशीर्षाः’, ‘सर्वतो’ इत्यत्र ‘सहस्रबाहुः’, ‘विश्वतो’ इति च पाठः।२,३. अक्षिग्रहणं सर्वज्ञानेन्द्रियोपलक्षकम्। पादग्रहणं कर्मेन्द्रियोप- लक्षकम्—इति यजुर्भाष्ये म०।४. दश च तानि अङ्गुलानि दशाङ्गुलानि इन्द्रियाणि। केचिदन्यथा रोचयन्ति दशाङ्गुलप्रमाणं हृदयस्थानम्। अपरे तु नासिकाग्रं दशाङ्गुलमिति शौनकः (उवटकृते यजुर्भाष्ये शौनकनाम्ना उद्धृतम्)। नाभेः सकाशाद् दशाङ्गुलमतिक्रम्य हृदि स्थितः इति तत्रैव महीधरस्य वैकल्पिकोऽर्थः। (दशाङ्गुलम्) पञ्च स्थूलसूक्ष्मभूतानि दश अङ्गुलानि अङ्गानि यस्य तज्जगत्—इति तत्रैव द०।५. यजुर्भाष्ये दयानन्दर्षिरपि मन्त्रमिमं परमात्मपक्षे व्याख्यातवान्, (पुरुषः) सर्वत्र पूर्णो जगदीश्वर इति।