Samveda/724
त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत। तमिद्वर्धन्तु नो गिरः(ला)।।॥७२४
Veda : Samveda | Mantra No : 724
In English:
Seer : shrutakakShaH sukakSho vaa aa~NgirasaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH
Subject : English Translation will be uploaded as and when ready.
Verse : trikadrukeShu chetana.m devaaso yaj~namatnata . tamidvardhantu no giraH.724
Component Words : trikadrukeShu . tri . kadrukeShu . chetanam . devaasaH . yaj~nam . akShata . tam . it . varddhantu . naH . giraH .
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : श्रुतकक्षः सुकक्षो वा आङ्गिरसः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः
विषय : अगले मन्त्र में उपासना-यज्ञ का विषय है।
पदपाठ : त्रिकद्रुकेषु । त्रि । कद्रुकेषु । चेतनम् । देवासः । यज्ञम् । अक्षत । तम् । इत् । वर्द्धन्तु । नः । गिरः ॥
पदार्थ : (देवासः) विद्वान् लोग (त्रिकद्रुकेषु) जिनमें आत्मा, मन और बुद्धि ये तीन मूल केन्द्र होते हैं उन व्यवहारों में (चेतनम्) चेतना प्रदान करनेवाले (यज्ञम्) उपासनायज्ञ को (अत्नत) फैलाते हैं। (तम् इत्) उसी उपासनायज्ञ को (नः) हमारी (गिरः) स्तुतिवाणियाँ (वर्धन्तु) बढ़ायें ॥३॥
भावार्थ : परमेश्वर की उपासना से मनुष्य की आत्मा में चेतना का प्रवाह, जागरूकता, कर्तव्यनिष्ठा, शूरता, कर्मण्यता, विजयशीलता, परोपकारिता इत्यादि गुण स्वयं ही आ जाते हैं ॥३॥इस खण्ड में जीवात्मा-परमात्मा व गुरु-शिष्य विषयों का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति जाननी चाहिए ॥द्वितीय अध्याय में प्रथम खण्ड समाप्त ॥
In Sanskrit:
ऋषि : श्रुतकक्षः सुकक्षो वा आङ्गिरसः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः
विषय : अथोपासनायज्ञविषयमाह।
पदपाठ : त्रिकद्रुकेषु । त्रि । कद्रुकेषु । चेतनम् । देवासः । यज्ञम् । अक्षत । तम् । इत् । वर्द्धन्तु । नः । गिरः ॥
पदार्थ : (देवासः) विद्वांसो जनाः (त्रिकद्रुकेषु२) त्रीणि कद्रुकाणि केन्द्रकीलकानि आत्ममनोबुद्ध्याख्यानि येषु तेषु व्यवहारेषु (चेतनम्) चेतयितारम् (यज्ञम्) उपासनायज्ञम् (अत्नत)विस्तारयन्ति। (तम् इत्) तमेव उपासनायज्ञम् (नः) अस्माकम्(गिरः) स्तुतिवाचः (वर्धन्तु) वर्धयन्तु ॥३॥
भावार्थ : परमेश्वरोपासनया मनुष्यस्यात्मनि चेतनाप्रवाहो जागरूकता कर्तव्यनिष्ठा शूरता कर्मण्यता विजेतृता परोपकारितेत्यादयो गुणाः स्वत एव समायान्ति ॥३॥अस्मिन् खण्डे जीवात्मपरमात्मगुरुशिष्यविषयवर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥
टिप्पणी:१. ऋ० ८।१३।१८ अन्ते ‘स॒दावृ॑धम्’ इत्यधिकम्, ऋषिः नारदः काण्वः, छन्दः उष्णिक्। ८।९२।२१, अथ० २०।११०।३।२. त्रिकद्रुकेषु अभिप्लाविकेषु अहस्सु ज्योतिर्गौरायुरिति त्रिकद्रुकाः तेषु—इति सा०। ज्योतिर्गौरायुरितीति चतुर्थपञ्चमषष्ठानामाभि- प्लाविकानामह्नां नाम्नां प्रतीकमात्रम्। अस्ति गवामयनादिकं सत्रं, तच्च एकषष्ट्युत्तरत्रिशतदिननिर्वर्त्यं भवति। तत्र प्रायणीयोऽतिरात्रनाम प्रथममहः, चतुर्विंशनाम द्वितीयमहः, उक्थनाम तृतीयम्, ज्योतिर्गोः चतुर्थमहः, आयुर्गौः पञ्चममहः, आयुर्ज्योतिरिति नामकं षष्ठमहः। एतान्येव षडहानि आभिप्लाविकान्युच्यन्ते, तेष्वेव शेषाण्यहानि चतुर्थादीनि त्रीणि त्रिकद्रुकाणीति—सामश्रमी।