Donation Appeal
Choose Mantra
Samveda/755

अस्य प्रत्नामनु द्युत शुक्रं दुदुह्रे अह्रयः। पयः सहस्रसामृषिम्॥७५५

Veda : Samveda | Mantra No : 755

In English:

Seer : avatsaaraH kaashyapaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : asya pratnaamanu dyuta.m shukra.m duduhre ahrayaH . paya sahasrasaamRRiShim.755

Component Words :
asya pratnaama .anu .dyutam .shukrama .duduhre .ahrayaH .aa .hrayaH .payaH .sahasrasaam .sahasra .saama .RRiShim.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अवत्सारः काश्यपः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में सोम नामक परमात्मा का विषय है।

पदपाठ : अस्य प्रत्नाम ।अनु ।द्युतम् ।शुक्रम ।दुदुह्रे ।अह्रयः ।आ ।ह्रयः ।पयः ।सहस्रसाम् ।सहस्र ।साम ।ऋषिम्॥

पदार्थ : (अस्य) इस (सोम) की अर्थात् सौम्य तेजवाले परमात्मा की (प्रत्नाम्) पुरातन, (सहस्रसाम्) असंख्यात फल प्रदान करनेवाली, (ऋषिम्) अनेक कार्यों को सिद्ध करनेवाली (द्युतम्) सौम्य द्युति का (अनु) अनुकूल ध्यान करके (अह्रयः) व्याप्त विद्यावाले विद्वान् उपासकजन (शुक्रम्) शुद्ध (पयः) ब्रह्मानन्दरूप रस को (दुदुह्रे) दुह लेते हैं, पा लेते हैं ॥१॥

भावार्थ : जो सौम्य, शुद्ध परमात्मा अपने उपासकों के हृदय में शुद्ध ब्रह्मानन्द रस को बहाता है, उसकी सौम्य द्युति में ध्यान सबको लगाना चाहिए ॥१॥


In Sanskrit:

ऋषि : अवत्सारः काश्यपः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ सोमस्य परमात्मनो विषयमाह।

पदपाठ : अस्य प्रत्नाम ।अनु ।द्युतम् ।शुक्रम ।दुदुह्रे ।अह्रयः ।आ ।ह्रयः ।पयः ।सहस्रसाम् ।सहस्र ।साम ।ऋषिम्॥

पदार्थ : (अस्य) सोमस्य सौम्यतेजसः परमात्मनः (प्रत्नाम्) पुराणीम् (सहस्रसाम्२) या सहस्राणि असंख्यातानि फलानि सनोति ददाति ताम् (ऋषिम्३) बहुकार्यसाधिकाम् (द्युतम्) सौम्यां द्युतिम् (अनु) अनुध्याय (अह्रयः४) व्याप्तविद्याः उपासकाः (शुक्रम्) शुद्धम् (पयः) ब्रह्मानन्दरसम् (दुदुह्रे) दुदुहिरे, प्राप्नुवन्ति। [दुह प्रपूरणे धातोः, वर्त्तमाने लिट्। इरयोरे अ० ६।४।७६ इति इरेज् इत्यस्य स्थाने रे आदेशः] ॥१॥५

भावार्थ : यः सौम्यः शुद्धः परमात्मा स्वोपासकानां हृदि सौम्यं शुद्धं ब्रह्मानन्दरसं स्रावयति तस्य सौम्यायां द्युतौ ध्यानं सर्वैः करणीयम् ॥१॥

टिप्पणी:१. ऋ० ९।५४।१। य० ३।१६ गोऽग्निपयोदेवत्या।२. सहस्रसाम् या सहस्राण्यसंख्यातानि कार्याणि सनोति ताम् इति य० ३।१६ भाष्ये द०।३. ऋषिम् कार्यसिद्धिप्राप्तिहेतुम्। अत्र इगुपधात् कित्। उ० ४।१२०, अनेन ऋषी गतौ इत्यस्माद् धातोरिन् प्रत्ययः—इति तत्रैव द०।४. (अह्रयः) अहुवन्ति व्याप्नुवन्ति सर्वा विद्या ये ते विद्वांसः। अत्र अह व्याप्तौ इत्यस्माद् बाहुलकेनौणादिकः क्रिः प्रत्ययः। महीधरेणायं ह्री लज्जायाम् इत्यस्य प्रयोगोऽशुद्ध एव व्याख्यातः इति य० ३।१६ भाष्ये द०।५. ‘अग्निर्देवता’ इति यजुर्भाष्ये दयानन्दर्षिः। स मन्त्रमिमं तत्र भौतिकाग्निपक्षे व्याख्यातवान्। ‘गायत्री अवत्सारद्रष्टा गोऽग्निपयोदेवत्या’ इति महीधरः। तन्मते “अर्षति दोहनस्थाने गच्छतीति ऋषिर्गौः। तां होमार्थं दुग्धवन्तः। सायंदोहनकालेऽग्निप्रकाशाभावे दुह्यमानं पयो भूमौ पतिष्यतीति शङ्कया दोग्धॄणां लज्जा भवति। सत्यामग्निदीप्तौ स्कन्नशङ्कानुदयाल्लज्जाभावाद् अह्रयो दोग्धारः। किंभूताम् ऋषिम् ? सहस्राम्। ‘षोऽन्तकर्मणि’। सहस्रसंख्याकानि कर्माणि स्यति समापयति क्षीरदध्याज्यहविःप्रदानेनेति सहस्रसा ताम्, स्यतेः क्विप्। यद्वा—अह्रयः गावः, नास्ति ह्रीर्लज्जा यासां ता अह्रयः अलज्जाः उज्ज्वलाः प्रशस्ता इत्यर्थः। मलिनो हि लज्जते। अह्रयो गावोऽस्याग्नेः प्रत्नां चिरन्तनीम् आत्मानुषक्तां द्युतं दीप्तिं शुक्रं शुक्ररूपापन्नां द्युतमेव पयो दुग्धं दुदुह्रे दुहन्ति क्षरन्ति, अग्निना शुक्ररूपेण सिक्तां स्वकान्तिमेव गावो दुग्धरूपेण क्षरन्तीत्यर्थः। ‘सहस्रसाम् ऋषिम्’ इति विशेषणद्वयं पयसः। सहस्रं सनोति सहस्रसास्तम्, चातुर्मास्यपशुसोमानां संभक्तारम्। पुंस्त्वमार्षम्। ‘जनसनखनक्रमगमो विट्’ पा० ३।२।६७ इति विट् प्रत्यये ‘विड्वनोरनुनासिकस्यात्’ पा० ६।४।४१ इत्याकारे वेर्लोपे सहस्रसा इति रूपम्। तथा ऋषिं द्रष्टारम्। गवि वर्तमानं द्रष्टृत्वं पयस्युपचर्यते यद्वा ‘सहस्रसाम् ऋषिम्’ इति विभक्तिलिङ्गवचनव्यत्ययेन अह्रयः इत्यस्य विशेषणद्वयम्। किंभूता अह्रयः ? सहस्रसाः, ऋषयः” इति।