Samveda/795
वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः। करतां नः सुराधसः (वा)।।॥७९५
Veda : Samveda | Mantra No : 795
In English:
Seer : medhaatithiH kaaNvaH | Devta : mitraavaruNau | Metre : gaayatrii | Tone : ShaDjaH
Subject : English Translation will be uploaded as and when ready.
Verse : varuNaH praavitaa bhuvanmitro vishvaabhiruutibhiH . karataa.m naH suraadhasaH.795
Component Words : varuuNaH .praavitaa. pra .avitaa .bhuvat .mitraH .mi .traa .vishvaabhi .uutibhiH .karataam .naH .suraadhasaH .su .raadhasaH.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : मेधातिथिः काण्वः | देवता : मित्रावरुणौ | छन्द : गायत्री | स्वर : षड्जः
विषय : अगले मन्त्र में भी वही विषय है।
पदपाठ : वरूणः ।प्राविता। प्र ।अविता ।भुवत् ।मित्रः ।मि ।त्रा ।विश्वाभि ।ऊतिभिः ।करताम् ।नः ।सुराधसः ।सु ।राधसः॥
पदार्थ : (वरुणः) शरीर में उदान और राष्ट्र में क्षत्रिय, (मित्रः) शरीर में प्राण और राष्ट्र में ब्राह्मण (विश्वाभिः) सब (ऊतिभिः) रक्षाओं से (प्राविता) हमारे प्रकृष्ट रूप से रक्षक (भुवत्) होवें। साथ ही (नः) हमें (सुराधसः) उत्तम धन से युक्त तथा उत्तम सिद्धिवाला (करताम्) करें ॥३॥
भावार्थ : प्राण-उदान द्वारा शरीर में स्वास्थ्यरूप तथा योगसिद्धिरूप धन को और ब्राह्मण-क्षत्रिय द्वारा राष्ट्र में विद्या, चक्रवर्ती राज्य आदि धन को सब प्राप्त करें ॥३॥
In Sanskrit:
ऋषि : मेधातिथिः काण्वः | देवता : मित्रावरुणौ | छन्द : गायत्री | स्वर : षड्जः
विषय : अथ पुनरपि तमेव विषयमाह।
पदपाठ : वरूणः ।प्राविता। प्र ।अविता ।भुवत् ।मित्रः ।मि ।त्रा ।विश्वाभि ।ऊतिभिः ।करताम् ।नः ।सुराधसः ।सु ।राधसः॥
पदार्थ : (वरुणः) शरीरे उदानः, राष्ट्रे क्षत्रियश्च (मित्रः) शरीरे प्राणः, राष्ट्रे ब्राह्मणश्च (विश्वाभिः) सर्वाभिः (ऊतिभिः) रक्षाभिः (प्राविता) अस्माकं प्रकर्षेण रक्षिता (भुवत्) भवतु। अपि च (नः) अस्मान् (सुराधसः२) सुधनान् सुसिद्धिमतश्च। [राधस् इति धननाम। निघं० २।१०। राध संसिद्धौ।] (करताम्) कुरुताम्। [डुकृञ् करणे, व्यत्ययेन शप्] ॥३॥३
भावार्थ : प्राणोदानाभ्यां देहे स्वास्थ्यरूपं योगसिद्धिरूपं च धनं, ब्राह्मणक्षत्रियाभ्यां च राष्ट्रे विद्याचक्रवर्तिराज्यादिरूपं धनं सर्वे प्राप्नुवन्तु ॥३॥
टिप्पणी:१. ऋ० १।२३।६।२. सुराधसः शोभनानि विद्याचक्रवर्तिराज्यसंबन्धीनि राधांसि धनानि येषां तान्—इति ऋ० १।२३।६ भाष्ये द०।३. एतमपि मन्त्रमृग्भाष्ये दयानन्दर्षिः सूर्यवायुपक्षे व्याचष्टे।