Samveda/1101
सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः। मित्राः स्वाना अरेपसः स्वाध्यः स्वर्विदः॥११०१
Veda : Samveda | Mantra No : 1101
In English:
Seer : manuH saa.mvaraNaH | Devta : pavamaanaH somaH | Metre : anuShTup | Tone : gaandhaaraH
Subject : English Translation will be uploaded as and when ready.
Verse : somaaH pavanta indavo.asmabhya.m gaatuvittamaaH . mitraaH suvaanaa arepasaH svaadhyaH svarvidaH.1101
Component Words : somaaH .pavante .indavaH .asmabhyam .gaatuvittamaaH .gaatu .vittamaaH. mitraaH .mi .traaH .svaanaaH .arepasaH .a .repasaH .svaadhyaH .su .aadhyaH .svarvidaH .svaH .vidaH.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : मनुः सांवरणः | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : प्रथम ऋचा पूर्वार्चिक में ५४८ क्रमाङ्क पर परमानन्दरस के विषय में व्याख्यात की जा चुकी है। यहाँ विद्वान् गुरुओं और राजपुरुषों का विषय कहते हैं।
पदपाठ : सोमाः ।पवन्ते ।इन्दवः ।अस्मभ्यम् ।गातुवित्तमाः ।गातु ।वित्तमाः। मित्राः ।मि ।त्राः ।स्वानाः ।अरेपसः ।अ ।रेपसः ।स्वाध्यः ।सु ।आध्यः ।स्वर्विदः ।स्वः ।विदः॥
पदार्थ : (इन्दवः) मधुर व्यवहार से वा ज्ञानरस से आर्द्र करनेवाले, (अस्मभ्यं गातुवित्तमाः) हमारे लिए अतिशय मार्ग दिखानेवाले, (मित्राः) मित्रभूत, (स्वानाः) सद्गुणों को उत्पन्न करनेवाले, (अरेपसः) निष्पाप, (स्वाध्यः) उत्तम ध्यानवाले, (स्वविर्दः) दिव्य प्रकाश वा आनन्द को प्राप्त करानेवाले (सोमाः) ज्ञानरस के भण्डार गुरुजन वा सत्कर्मों में प्रेरित करनेवाले राजपुरुष (पवन्ते) शिष्यों वा प्रजाजनों के जीवनों को पवित्र करते हैं ॥१॥
भावार्थ : गुरुजन और राजपुरुष यदि विद्वान्, मधुर, मार्गदर्शक, मित्र के समान व्यवहार करनेवाले, शिक्षा द्वारा सद्गुण उत्पन्न करनेवाले, निरपराध, निर्दोष,अपने कार्य में दत्तावधान और पवित्रकर्ता होते हैं, तभी वे शिष्यों और प्रजाओं की उन्नति करने में समर्थ हो पाते हैं ॥१॥
In Sanskrit:
ऋषि : मनुः सांवरणः | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ५४८ क्रमाङ्के परमानन्दरसविषये व्याख्याता। अत्र विदुषां गुरूणां राजपुरुषाणां च विषयमाह।
पदपाठ : सोमाः ।पवन्ते ।इन्दवः ।अस्मभ्यम् ।गातुवित्तमाः ।गातु ।वित्तमाः। मित्राः ।मि ।त्राः ।स्वानाः ।अरेपसः ।अ ।रेपसः ।स्वाध्यः ।सु ।आध्यः ।स्वर्विदः ।स्वः ।विदः॥
पदार्थ : (इन्दवः) मधुरव्यवहारेण ज्ञानरसेन वा क्लेदकाः, (अस्मभ्यं गातुवित्तमाः) अस्मभ्यमतिशयेन मार्गदर्शयितारः, (मित्राः) मित्रभूताः, (स्वानाः) सुवानाः सद्गुणानुत्पादयन्तः, (अरेपसः) निष्पापाः, (स्वाध्यः)शोभनध्यानाः, (स्वर्विदः) दिव्यप्रकाशस्य आनन्दस्य वा लम्भकाः (सोमाः) ज्ञानरसागाराः गुरवः सत्कर्मसु प्रेरकाः राजपुरुषाश्च (पवन्ते) शिष्याणां प्रजाजनानां च जीवनानि पवित्रीकुर्वन्ति ॥१॥
भावार्थ : गुरवो राजपुरुषाश्च यदि विद्वांसो मधुरा मार्गदर्शका मित्रवद् व्यवहरन्तः शिक्षया सद्गुणानुत्पादयन्तो निरपराधा निर्दोषाः स्वकर्मणि दत्तावधानाः पावकाश्च भवन्ति तदैव ते शिष्याणां प्रजानां चोन्नतिं कर्तुं पारयन्ति ॥१॥
टिप्पणी:१. ऋ० ९।१०१।१०, ‘सु॑वा॒ना’ इति पाठः। साम० ५४८