Samveda/1220
प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात्। आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति॥१२२०
Veda : Samveda | Mantra No : 1220
In English:
Seer : vasiShTho maitraavaruNiH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : prothadashvo na yavase.aviShyanyadaa mahaH sa.mvaraNaadvyasthaat . aadasya vaato anu vaati shochiradha sma te vrajana.m kRRiShNamasti.1220
Component Words : prothat .ashvaH. na. yavase .aviShyan .yadaa. mahaH .sa.mvaraNaat .sam .varaNaat .vyasthaat .vi .asthaat. aat .asva .vaataH .anu .vaati .shochiH .adha .sma. te. vajranam .kRRiShNam .asti.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अगले मन्त्र में विद्वान् का विषय है।
पदपाठ : प्रोथत् ।अश्वः। न। यवसे ।अविष्यन् ।यदा। महः ।संवरणात् ।सम् ।वरणात् ।व्यस्थात् ।वि ।अस्थात्। आत् ।अस्व ।वातः ।अनु ।वाति ।शोचिः ।अध ।स्म। ते। वज्रनम् ।कृष्णम् ।अस्ति॥
पदार्थ : (अश्वः न) घोड़ा जैसे (यदा) जब (महः संवरणात्) विशाल घुड़साल से (व्यस्थात्) छूटता है, तब (अविष्यन्) खाना चाहता हुआ (यवसे) घास पाने के हेतु (प्रोथत्) हिनहिनाता है, वैसे ही जो अग्नि अर्थात् विद्वान् स्नातक (यदा) जब (संवरणात्) गुरुकुल के नियन्त्रण से (व्यस्थात्) छूटता है, तब (यवसे) मानव-समाज में (प्रोथत्) पूर्णता लाता है। (आत्) उसके अनन्तर (वातः) समाज का वातावरण (अस्य) इस विद्वान् स्नातक की (शोचिः) दीप्ति के अर्थात् प्रभाव के (अनु वाति) पीछे-पीछे चलता है। आगे प्रत्यक्षरूप में कहते हैं—(अध) उसके बाद, हे विद्वान् स्नातक ! (ते) तेरा (व्रजनम्) चलना-फिरना आदि व्यापार (कृष्णम् अस्ति) आकर्षक हो जाता है ॥२॥यहाँ श्लिष्टोपमालङ्कार है ॥२॥
भावार्थ : जिसका समावर्तन संस्कार हो चुका है, ऐसा विद्वान् स्नातक गुरुकुल से बाहर आकर समाज में विद्या और सच्चरित्र का प्रसार करे ॥२॥
In Sanskrit:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अथ विद्वद्विषयमाह।
पदपाठ : प्रोथत् ।अश्वः। न। यवसे ।अविष्यन् ।यदा। महः ।संवरणात् ।सम् ।वरणात् ।व्यस्थात् ।वि ।अस्थात्। आत् ।अस्व ।वातः ।अनु ।वाति ।शोचिः ।अध ।स्म। ते। वज्रनम् ।कृष्णम् ।अस्ति॥
पदार्थ : (अश्वं न) अश्वो यथा (यदा) यस्मिन् काले (महः संवरणात्) महत्याः वाजिशालायाः (व्यस्थात्) विमुक्तो भवति तदा (अविष्यन्) अत्तुमिच्छन्। [अविष्यन्निति अत्तिकर्मसु पठितम्। निघं० २।९।] (यवसे) घासे निमित्ते (प्रोथत्) हेषते। [प्रोथृ पर्याप्तौ, भ्वादिः, लेटि तिपि रूपम्। प्रोथोऽश्वघोणा, तयोत्थाप्यमाने शब्देऽपि प्रोथतिः प्रयुज्यते।]तथैव यः अग्निः विद्वान् स्नातकः (यदा) यस्मिन् काले (संवरणात्) गुरुकुलस्य नियन्त्रणात् (व्यस्थात्) विमुक्तो जायते तदा (अविष्यन्) रक्षणं करिष्यन् (यवसे) मानवसमाजे। [यु मिश्रणामिश्रणयोः। बाहुलकादौणादिकः अस् प्रत्ययः। यूयते परस्परं मिलति यः स यवसः समाजः।] (प्रोथत्) पूर्णतामानयति। [प्रोथृ पर्याप्तौ ‘पर्याप्तिः पूर्णता’ इति क्षीरस्वामी।] (आत्) अनन्तरम् (वासः) समाजस्य वातावरणम् (अस्य) एतस्य अग्नेः विदुषः स्नातकस्य (शोचिः) दीप्तिम्, प्रभावम् (अनु वाति) अनुसरति। अथ प्रत्यक्षकृतमाह—(अध) तदनन्तरम्, हे अग्ने विद्वन् स्नातक ! (ते) तव (व्रजनम्) गमनम्, व्यापारः इति यावत् (कृष्णम् अस्ति) आकर्षकं जायते ॥२॥२
भावार्थ : कृतसमावर्तनसंस्कारो विद्वान् स्नातको गुरुकुलाद् बहिरागम्य समाजे विद्यायाः सच्चारित्र्यस्य च प्रसारं कुर्यात् ॥२॥
टिप्पणी:१. ऋ० ७।३।२।२. इममपि मन्त्रमृग्भाष्ये दयानन्दर्षिर्विद्युद्विषये व्याख्यातवान्। तथा च तत्कृतो भावार्थः—‘यदा मनुष्या अग्नियानेन गमनं तडिता समाचारांश्च गृह्णीयुस्तदैते सद्यः कार्याणि साद्धुं शक्नुवन्ति’ इति।