Samveda/1320
अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः। यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् (लू)।। [धा. । उ नास्ति । स्व. ।]॥१३२०
Veda : Samveda | Mantra No : 1320
In English:
Seer : nRRimedha aa~NgirasaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH
Subject : English Translation will be uploaded as and when ready.
Verse : alarShiraati.m vasudaamupa stuhi bhadraa indrasya raatayaH . yo asya kaama.m vidhato na roShati mano daanaaya chodayan. 1320
Component Words : alarShi . raatim . vasudaam . vasu . daam . upa . stuhi . bhadraaH . indrasya . raatayaH . yaH . asya . kaamam . vidhataH . na . roShati . manaH . daanaaya . chodayan.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : नृमेध आङ्गिरसः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः
विषय : अगले मन्त्र में मनुष्य को परमात्मोपासना की प्रेरणा दी गयी है।
पदपाठ : अलर्षि । रातिम् । वसुदाम् । वसु । दाम् । उप । स्तुहि । भद्राः । इन्द्रस्य । रातयः । यः । अस्य । कामम् । विधतः । न । रोषति । मनः । दानाय । चोदयन्॥
पदार्थ : हे मानव ! तू (अलर्षिरातिम्) शोभास्पद दानवाले, (वसुदाम्) धन के दाता इन्द्रनामक परमैश्वर्यवान् परमात्मा की (उप स्तुहि) समीपता से स्तुति कर। (इन्द्रस्य) परमैश्वर्यशाली परमात्मा की (रातयः) दान-परम्पराएँ (भद्राः) कल्याण करनेवाली होती हैं। (मनः) अपने मन को (दानाय) देने के लिए (चोदयन्) प्रेरित करता हुआ (सः) वह इन्द्र परमात्मा (विधतः) पूजा करनेवाले (अस्य) इस उपासक के (कामम्) मनोरथ को (न रोषति) असफल नहीं करता अर्थात् उसका अभीष्ट उसे देता ही है ॥२॥
भावार्थ : जो जिसके हित के लिए होता है, वह उसे जगदीश्वर देता है ॥२॥
In Sanskrit:
ऋषि : नृमेध आङ्गिरसः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः
विषय : अथ मनुष्यं परमात्मोपासनाय प्रेरयति।
पदपाठ : अलर्षि । रातिम् । वसुदाम् । वसु । दाम् । उप । स्तुहि । भद्राः । इन्द्रस्य । रातयः । यः । अस्य । कामम् । विधतः । न । रोषति । मनः । दानाय । चोदयन्॥
पदार्थ : हे मानव ! त्वम् (अलर्षिरातिम्) शोभास्पददानम्। [अलति शोभते इति अलम्, अल भूषणपर्याप्तिवारणेषु भ्वादिः। अलं शोभां ऋषति गच्छतीति अलर्षिः, ऋषी गतौ तुदादिः। अलर्षिः रातिः यस्य सोऽलर्षिरातिः तम्।] (वसुदाम्) धनस्य दातारम् इन्द्रम् परमैश्वर्यवन्तं परमात्मानम् (उप स्तुहि) उपश्लोकय। (इन्द्रस्य) परमैश्वर्यशालिनः परमात्मनः (रातयः) दानपरम्पराः (भद्राः) कल्याणप्रदाः सन्ति। (मनः) स्वकीयं मानसम् (दानाय) त्यागाय (चोदयन्) प्रेरयन् (सः) इन्द्रः परमात्मा (विधतः) परिचरतः। [विधेम इति परिचरणकर्मसु पठितम्। निघं० ३।५।] (अस्य) उपासकस्य (कामम्) मनोरथम् (न रोषति) न हिनस्ति, तदभीष्टं ददात्येवेत्यर्थः। [रुष हिंसार्थः, भ्वादिः] ॥अनर्शरातिम् इति ऋग्वेदीयः पाठो यास्काचार्येणैवं व्याख्यातः—[‘अनर्षरातिमनश्लीलदानम्। अश्लीलं पापकम्, अश्रिमद् विषमम्’ इति (निरु० ६।२३)] ॥२॥
भावार्थ : यद् यस्य हिताय भवति तत् तस्मै जगदीश्वरो ददाति ॥२॥
टिप्पणी:१. ऋ० ८।९९।४, अथ० २०।५८।२, उभयत्र ‘अन॑र्शरातिं’, ‘सो अ॑स्य॒’ इति पाठः।