Samveda/1363
कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमाशत। इन्द्र स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् (ला)।। [धा. । उ नास्ति । स्व. ।]॥१३६३
Veda : Samveda | Mantra No : 1363
In English:
Seer : medhyaatithiH kaaNvaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH
Subject : English Translation will be uploaded as and when ready.
Verse : kaNvaa iva bhRRigavaH suuryaa iva vishvamiddhiitamaashata . indra.m stomebhirmahayanta aayavaH priyamedhaaso asvaran.1363
Component Words : kaNvaaH . iva . bhRRigavaH . suuryaaH . iva . vishvam . it . dhiitam . aashat . indram . stomebhiH . mahayantaH . aayavaH . priyamedhaasaH . priya . medhaasaH . asvaran.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : मेध्यातिथिः काण्वः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः
विषय : अगले मन्त्र में स्तोताओं की उपलब्धि वर्णित करते हैं।
पदपाठ : कण्वाः । इव । भृगवः । सूर्याः । इव । विश्वम् । इत् । धीतम् । आशत् । इन्द्रम् । स्तोमेभिः । महयन्तः । आयवः । प्रियमेधासः । प्रिय । मेधासः । अस्वरन्॥
पदार्थ : (प्रियमेधासः) जिन्हें मेधा प्रिय है, ऐसे (आयवः) मनुष्य (इन्द्रम्) परमेश्वर की (महयन्तः) पूजा करते हुए (स्तोमेभिः) साम के स्तोत्रों से (अस्वरन्) उसकी स्तुति करते हैं। उसके अनन्तर वे (कण्वाः इव) मेधावी ब्रह्मवर्चस्वी ब्राह्मणों के समान और (सूर्याः इव) सूर्यों के समान (भृगवः) तेजस्वी होते हुए (विश्वम् इत्) सभी (धीतम्) सोचे हुए अभीष्ट को (आशत्) प्राप्त कर लेते हैं ॥२॥यहाँ उपमालङ्कार है ॥२॥
भावार्थ : परमात्मा के उपासक लोग तेजस्विता और आत्मविश्वास प्राप्त करके पुरुषार्थ करते हुए सब अभीष्ट को पा लेते हैं ॥२॥
In Sanskrit:
ऋषि : मेध्यातिथिः काण्वः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः
विषय : अथ स्तोतॄणामुपलब्धिमाह।
पदपाठ : कण्वाः । इव । भृगवः । सूर्याः । इव । विश्वम् । इत् । धीतम् । आशत् । इन्द्रम् । स्तोमेभिः । महयन्तः । आयवः । प्रियमेधासः । प्रिय । मेधासः । अस्वरन्॥
पदार्थ : (प्रियमेधासः) प्रियप्रज्ञाः। [प्रियमेधः प्रिया अस्य मेधा। निरु० ३।१७।] (आयवः) मनुष्याः (इन्द्रम्) परमेश्वरम् (महयन्तः) पूजयन्तः (स्तोमेभिः) सामस्तोत्रैः (अस्वरन्) स्तुवन्ति। [स्वृ शब्दोपतापयोः, भ्वादिः।] ततश्च (कण्वाः इव) मेधाविनो ब्रह्मवर्चस्विनो ब्राह्मणाः इव, (सूर्याः इव) आदित्याः इव च (भृगवः२) तेजस्विनः सन्तः। [भ्रस्ज पाके। प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च। उ० १।२८ इत्यनेन कुः प्रत्ययः सम्प्रसारणं सलोपश्च।] (विश्वम् इत्) सर्वमेव (धीतम्) आध्यातम्, अभीष्टम् (आशत) प्राप्नुवन्ति ॥२॥अत्रोपमालङ्कारः ॥२॥
भावार्थ : परमात्मोपासकास्तेजस्वितामात्मविश्वासं च प्राप्य पुरुषार्थं कुर्वाणाः सर्वं समीहितं लभन्ते ॥२॥
टिप्पणी:१. ऋ० ८।३।१६, अथ० २०।१०।२, ५९।२, सर्वत्र ‘माशत’ इत्यत्र ‘मा॑नशुः’ इति पाठः।२. भृगवः भृगुगोत्रोत्पन्ना ऋषयः—इति सा०। भृगवः भर्जनकराः सूर्या इव यथा आदित्यरश्मयः—इति वि०।