Donation Appeal
Choose Mantra
Samveda/1417

स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता। विप्रेभिरस्तु सनिता (ठा)।। [धा. । उ । स्व. ।]॥१४१७

Veda : Samveda | Mantra No : 1417

In English:

Seer : shunaH shepa aajiigartiH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : sa vaaja.m vishvacharShaNirarvadbhirastu tarutaa . viprebhirastu sanitaa.1417

Component Words :
saH . vaajam . vishvacharShaNiH . vishva . charShaNiH . arvadbhiH . astu . tarutaa . viprebhiH . vi . prebhiH . astu . sanitaa.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : शुनः शेप आजीगर्तिः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में परमेश्वर से प्रार्थना करते हैं।

पदपाठ : सः । वाजम् । विश्वचर्षणिः । विश्व । चर्षणिः । अर्वद्भिः । अस्तु । तरुता । विप्रेभिः । वि । प्रेभिः । अस्तु । सनिता॥

पदार्थ : (विश्वचर्षणिः) सब मनुष्यों पर अनुग्रह करनेवाला (सः) वह अग्रणी जगदीश्वर (अर्वद्भिः) आक्रमणकारी क्षत्रिय योद्धाओं द्वारा (वाजम्) संग्राम को (तरुता) पार करानेवाला (अस्तु) होवे और (विप्रेभिः) मेधावी ब्राह्मणों द्वारा (सनिता) ज्ञान आदि को देनेवाला (अस्तु) होवे ॥३॥

भावार्थ : निराकार परमेश्वर ब्राह्मणों के माध्यम से ज्ञान का दान, क्षत्रियों के माध्यम से रक्षा, वैश्यों के माध्यम से पोषक पदार्थों का दान करता हुआ मनुष्यों का उपकार करता है ॥३॥


In Sanskrit:

ऋषि : शुनः शेप आजीगर्तिः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमेश्वरं प्रार्थयते।

पदपाठ : सः । वाजम् । विश्वचर्षणिः । विश्व । चर्षणिः । अर्वद्भिः । अस्तु । तरुता । विप्रेभिः । वि । प्रेभिः । अस्तु । सनिता॥

पदार्थ : (विश्वचर्षणिः) विश्वे सर्वे चर्षणयः मनुष्याः अनुग्राह्या यस्य तथाविधः। [चर्षणयः इति मनुष्यनाम। निघं० २।३। ‘बहुव्रीहौ विश्वं संज्ञायाम्।’ अ० ६।२।१०६ इति पूर्वपदान्तोदात्तत्वम्] (सः) असौ अग्निः अग्रणीः जगदीश्वरः (अर्वद्भिः) आक्रामकैः क्षत्रियैः योद्धृभिः। [ऋ गतौ। ऋच्छति आक्रामतीति अर्वा। ‘स्नामदिपद्यर्तिपॄशकिभ्यो वनिप्।’ उ० ४।११४ इति वनिप् प्रत्ययः।] (वाजम्) संग्रामम् (तरुता) तारयिता, पारं गमयिता। [ग्रसितस्कभित०। अ० ७।२।३४ इथि तरतेस्तृनि उडागमो निपात्यते।] (अस्तु) भवतु। अपि च, (विप्रेभिः) मेधाविभिर्ब्राह्मणैः (सनिता) ज्ञानादिकस्य प्रदाता (अस्तु) भवतु ॥३॥२

भावार्थ : निराकारः परमेश्वरो विप्राणां माध्यमेन ज्ञानदानं, क्षत्रियाणां माध्यमेन रक्षां, वैश्यानां माध्यमेन पोषकद्रव्यप्रदानं कुर्वन् जनानुपकरोति ॥३॥

टिप्पणी:१. ऋ० १।२७।९।२. ऋग्भाष्ये दयानन्दर्षिरिममपि मन्त्रं सेनाध्यक्षपक्षे व्याचष्टे।