Samveda/1422
भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये। अस्मां चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय (ल)।। [धा. । उ नास्ति । स्व. ।]॥१४२२
Veda : Samveda | Mantra No : 1422
In English:
Seer : medhyaatithiH kaaNvaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH
Subject : English Translation will be uploaded as and when ready.
Verse : bhuuyaama te sumatau vaajino vaya.m maa na starabhimaataye . asmaa.m chitraabhiravataadabhiShTibhiraa naH sumneShu yaamaya.1422
Component Words : bhuuyaama . te . sumatau . su . matau . vaajinaH . vayam . maa . naH . staH . abhimaataye . abhi . maataye . asmaan . chitraabhiH . avataat . abhiShTibhiH . aa . naH . sugneShu . yaamaya.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : मेध्यातिथिः काण्वः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः
विषय : अगले मन्त्र में फिर परमेश्वर से प्रार्थना है।
पदपाठ : भूयाम । ते । सुमतौ । सु । मतौ । वाजिनः । वयम् । मा । नः । स्तः । अभिमातये । अभि । मातये । अस्मान् । चित्राभिः । अवतात् । अभिष्टिभिः । आ । नः । सुग्नेषु । यामय॥
पदार्थ : हे इन्द्र जगदीश्वर ! (वयम्) आपके उपासक हम (वाजिनः) बलवान् होते हुए ( ते) आपकी (सुमतौ) सुमति में (भूयाम) होवें, अर्थात् आपसे मिलनेवाली सुमति के पात्र बनें। आप (नः) हमें (अभिमातये) अभिमान के (मा स्तः) वशीभूत मत होने दो। (अस्मान्) हम स्तोताओं की (चित्राभिः) अद्भुत (अभिष्टिभिः) अभीष्ट आध्यात्मिक और भौतिक सम्पत्तियों से (अवतात्) रक्षा करो। साथ ही (नः) हमें (सुम्नेषु) दिव्य आनन्दों में (आ यामय) रमाओ ॥२॥
भावार्थ : मनुष्य सुमति को पाकर और अभिमान को दूर करके जगदीश्वर से रक्षा किया जाकर सुखी होता है ॥२॥
In Sanskrit:
ऋषि : मेध्यातिथिः काण्वः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः
विषय : अथ पुनरपि परमेश्वरः प्रार्थ्यते।
पदपाठ : भूयाम । ते । सुमतौ । सु । मतौ । वाजिनः । वयम् । मा । नः । स्तः । अभिमातये । अभि । मातये । अस्मान् । चित्राभिः । अवतात् । अभिष्टिभिः । आ । नः । सुग्नेषु । यामय॥
पदार्थ : हे इन्द्र जगदीश्वर ! (वयम्) तवोपासकाः (वाजिनः) बलवन्तः सन्तः (ते) तव (सुमतौ) सन्मतौ (भूयाम) वर्तिषीमहि, त्वत्तः प्राप्यमाणायाः सुमतेः पात्रतां व्रजेमेत्यर्थः। त्वम् (नः) अस्मान् (अभिमातये२) अभिमानाय (मा स्तः३) न स्तृणु, न वशीकुरु [स्तृञ् आच्छादने, स्वादिः।] (अस्मान्) स्तोतॄन् (चित्राभिः) अद्भुताभिः (अभिष्टिभिः) अभीष्टाभिः आध्यात्मिकीभिर्भौतिकीभिश्च सम्पद्भिः (अवतात्) रक्षतात्। किञ्च (नः) अस्मान् (सुम्नेषु) दिव्येषु आनन्देषु। [सुम्नमिति सुखनाम। निघं० ३।६।] (आ यामय) आयतान् कुरु, रमयेत्यर्थः ॥२॥
भावार्थ : मनुष्यः सुमतिं प्राप्याभिमानं च निरस्य जगदीश्वरेण रक्षितः सन् सुखी जायते ॥२॥
टिप्पणी:१. ऋ० ८।३।२।२. अभिमातये अभिमन्यत इत्यभिमातिः शत्रुः तस्मै तदर्थम्—इति सा०। अभिमातिः शत्रुः अथवा कश्चिद् रोगः—इति वि०।३. मा स्तः मा हिंसीः, स्तृञ् हिंसायाम् क्र्यादिः, माङि लुङि छान्दसश्च्लेर्लुक्—इति सा०।