Samveda/1455
इदश्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत्। विश्वभ्राड् भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् (जि)।। [धा. । उ । स्व. ।]॥१४५५
Veda : Samveda | Mantra No : 1455
In English:
Seer : vibhraaTa sauryaH | Devta : suuryaH | Metre : jagatii | Tone : niShaadaH
Subject : English Translation will be uploaded as and when ready.
Verse : ida.m shreShTha.m jyotiShaa.m jyotiruttama.m vishvajiddhanajiduchyate bRRihat . vishvabhraaD bhraajo mahi suuryo dRRisha uru paprathe saha ojo achyutam.1455
Component Words : idam . shreShTham . jyotiShaam . jyotiH . uttamam . vishvajit . vishva . jit . dhanajit . dhana . jit . uchyate . bRRihat . vishvabhraaTa . vishva . bhraaTa . bhraajaH . mahi . suuryaH . dRRishe . uru . paprathe . sahaH . ojaH . achyutam . a . chyutam.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : विभ्राट सौर्यः | देवता : सूर्यः | छन्द : जगती | स्वर : निषादः
विषय : अगले मन्त्र में फिर सूर्य की ज्योति का वर्णन है।
पदपाठ : इदम् । श्रेष्ठम् । ज्योतिषाम् । ज्योतिः । उत्तमम् । विश्वजित् । विश्व । जित् । धनजित् । धन । जित् । उच्यते । बृहत् । विश्वभ्राट । विश्व । भ्राट । भ्राजः । महि । सूर्यः । दृशे । उरु । पप्रथे । सहः । ओजः । अच्युतम् । अ । च्युतम्॥
पदार्थ : (इदम्) यह सामने दिखायी देती हुई, (श्रेष्ठम्) श्रेष्ठ, (ज्योतिषां ज्योतिः) ज्योतियों की ज्योति अर्थात् प्रकाशक ग्रह-उपग्रह तथा अग्नि, विद्युत्, आदि को भी प्रकाशित करनेवाली, (उत्तमम्) उत्कृष्टतम (बृहत्) विस्तीर्ण सूर्य-ज्योति (विश्वजित्) सबको जीतनेवाली और (धनजित्) धनों को जीतनेवाली (उच्यते) कही जाती है। (विश्वभ्राट्) सम्पूर्ण सौरमण्डल का प्रकाशक, (भ्राजः) देदीप्यमान (सूर्यः) सूर्य (दृशे) देखने के लिए (महि) महान्, (उरु) विस्तीर्ण, (सहः) अन्धकार को तिरस्कृत करनेवाले, (अच्युतम्) अन्य ज्योतियों से तिरस्कृत न होनेवाले (ओजः) तेज को (पप्रथे) फैला रहा है ॥३॥यहाँ भी स्वभावोक्ति अलङ्कार है ॥३॥
भावार्थ : द्युलोक और भूलोक में सर्वत्र फैली हुई सूर्य की ज्योति परमेश्वर के ही यश को प्रकाशित करती है ॥३॥
In Sanskrit:
ऋषि : विभ्राट सौर्यः | देवता : सूर्यः | छन्द : जगती | स्वर : निषादः
विषय : अथ पुनः सूर्यस्य ज्योतिर्वर्णयति।
पदपाठ : इदम् । श्रेष्ठम् । ज्योतिषाम् । ज्योतिः । उत्तमम् । विश्वजित् । विश्व । जित् । धनजित् । धन । जित् । उच्यते । बृहत् । विश्वभ्राट । विश्व । भ्राट । भ्राजः । महि । सूर्यः । दृशे । उरु । पप्रथे । सहः । ओजः । अच्युतम् । अ । च्युतम्॥
पदार्थ : (इदम्) एतत् पुरो दृश्यमानम्, (श्रेष्ठम्) प्रशस्यतमम्, (ज्योतिषां ज्योतिः) प्रकाशकानां ग्रहोपग्रहाणाम् वह्निविद्युदादीनां चापि प्रकाशकम्, (उत्तमम्) उत्कृष्टतमम्, (बृहत्) सुविस्तीर्णं सौरं तेजः (विश्वजित्) विश्वजेतृ, (धनजित्) धनानां जेतृ च (उच्यते) कथ्यते। (विश्वभ्राट्) विश्वस्य सौरमण्डलस्य प्रकाशयिता, (भ्राजः) भ्राजमानः (सूर्यः) आदित्यः (दृशे) दर्शनाय (महि) महत् (उरु) विस्तीर्णम् (सहः) तमसामभिभवितृ, (अच्युतम्) इतरैर्ज्योतिर्भिः अपराभूतम् (ओजः) तेजः (पप्रथे) विस्तारयति ॥३॥अत्रापि स्वभावोक्तिरलङ्कारः ॥३॥
भावार्थ : दिवि भुवि च सर्वत्र विस्तीर्णं सूर्यज्योतिः परमेश्वरस्यैव यशः प्रकाशयति ॥३॥
टिप्पणी:१. ऋ० १०।१७०।३।