Samveda/1470
केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे। समुषद्भिरजायथाः (य)।।॥१४७०
Veda : Samveda | Mantra No : 1470
In English:
Seer : madhuchChandaa vaishvaamitraH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH
Subject : English Translation will be uploaded as and when ready.
Verse : ketu.m kRRiNvannaketave pesho maryaa apeshase . samuShadbhirajaayathaaH.1470
Component Words : ketum . kRRiNvan . aketave . a . ketave . peshaH . maryaaH . apeshase . a . peshase . sam . uShadbhiH . ajaayathaa. .
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : मधुच्छन्दा वैश्वामित्रः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः
विषय : अगले मन्त्र में परमात्मा, सूर्य और प्राण का उपकार वर्णित है।
पदपाठ : केतुम् । कृण्वन् । अकेतवे । अ । केतवे । पेशः । मर्याः । अपेशसे । अ । पेशसे । सम् । उषद्भिः । अजायथा॥ ।
पदार्थ : हे इन्द्र अर्थात् परमात्मन् सूर्य वा प्राण ! तुम (अकेतवे) प्रज्ञान-हीन और कर्म-हीन के लिए (केतुम्) प्रज्ञान और कर्म को (कृण्वन्) उत्पन्न करते हुए (उषद्भिः) उषाओं के साथ (सम् अजायथाः) प्रकट होते हो। हे (मर्याः) मनुष्यो ! तुम भी वैसा ही करो ॥३॥
भावार्थ : परमेश्वर के समान, सूर्य के समान और प्राण के समान मनुष्य भी यदि ज्ञानहीनों में ज्ञान, कर्महीनों में कर्म और रूपहीनों में रूप का विस्तार करें, तभी उनका जन्म सफल है ॥३॥इस खण्ड में वेदवाणी, आचार्य, ब्राह्मण-क्षत्रिय तथा परमात्मा, सूर्य और प्राण के विषयों का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥तेरहवें अध्याय में चतुर्थ खण्ड समाप्त ॥
In Sanskrit:
ऋषि : मधुच्छन्दा वैश्वामित्रः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः
विषय : अथ परमात्मनः सूर्यस्य प्राणस्य चोपकारो वर्ण्यते।
पदपाठ : केतुम् । कृण्वन् । अकेतवे । अ । केतवे । पेशः । मर्याः । अपेशसे । अ । पेशसे । सम् । उषद्भिः । अजायथा॥ ।
पदार्थ : हे इन्द्र परमात्मन् आदित्य प्राण वा ! त्वम् (अकेतवे) प्रज्ञानरहिताय कर्मरहिताय च (केतुम्२) प्रज्ञानं कर्म च (कृण्वन्) उत्पादयन्, (अपेशसे) रूपरहिताय (पेशः) रूपम् (कृण्वन्) उत्पादयन् (उषद्भिः) प्रभातकान्तिभिः सह (सम् अजायथाः) प्रादुर्भवसि। हे (मर्याः) मनुष्याः ! तथैव यूयमपि कुरुत। [केतुरिति कर्मनाम प्रज्ञानाम च निघं० २।१, ३।९। पेशः इति रूपनाम। निघं० ३।७। उषद्भिः, ‘स्ववःस्वतवसोरुषसश्चेष्यते। वा० ७।४।४८’ इति सकारस्य दकारादेशः] ॥३॥३
भावार्थ : परमेश्वरवत् सूर्यवत् प्राणवच्च मनुष्या अपि ज्ञानरहितेषु ज्ञानं, कर्मरहितेषु कर्म, रूपरहितेषु च रूपं प्रतन्वन्तु चेत् तदैव तेषां जन्म सफलम् ॥३॥अस्मिन् खण्डे वेदवाचः आचार्यस्य ब्राह्मणक्षत्रिययोः परमात्मसूर्यप्राणानां च विषयस्य वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥
टिप्पणी:१. ऋ० १।६।३, य० २९।३७, अथ० २०।२६।६, ४७।१२, ६९।११।२. केतुं कृण्वन्नकेतवे। केतुर्ध्वजः तं कृण्वन्, अकेतवे यः कश्चित् मर्तः अकेतुरध्वजः तमसि केतुमन्तं तं कुर्वन् अतिवस्तुसम्पन्नत्वात्—इति वि०।३. दयानन्दस्वामिना मन्त्रोऽयमृग्भाष्ये परमेश्वरविषये यजुर्भाष्ये च विद्वद्विषये व्याख्यातः।