Samveda/1547
कृष्णां यदेनीमभि वर्पसाभूज्जनयन्योषां बृहतः पितुर्जाम्। ऊर्ध्वं भानु सूर्यस्य स्तभायन् दिवो वसुभिररतिर्वि भाति॥१५४७
Veda : Samveda | Mantra No : 1547
In English:
Seer : trita aaptayaH | Devta : agniH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : kRRiShNaa.m yadeniimabhi varpasaabhuujjanayanyoShaa.m bRRihataH piturjaam . uurdhva.m bhaanu.m suuryasya stabhaayandivo vasubhiraratirvi bhaati.1547
Component Words : kRRiShNaam . yat . eniim . abhi . varpasaa . bhuut . janayat . yoShaam . bRRihataH . pituH . jaam . uurdhvam . bhaanum . suuryasya . stabhaayan . divaH . vasubhiH . aratiH . vi . bhaati.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : त्रित आप्तयः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : आगे फिर परमात्मा के कर्तृत्व का वर्णन है।
पदपाठ : कृष्णाम् । यत् । एनीम् । अभि । वर्पसा । भूत् । जनयत् । योषाम् । बृहतः । पितुः । जाम् । ऊर्ध्वम् । भानुम् । सूर्यस्य । स्तभायन् । दिवः । वसुभिः । अरतिः । वि । भाति॥
पदार्थ : (यत्) जब (बृहतः पितुः) महान् पालनकर्ता सूर्य की (जाम्) पुत्री (योषाम्) उषा को (जनयन्) उत्पन्न करना चाहता हुआ अग्नि परमेश्वर (एनीम्) व्याप्त (कृष्णाम्) काली रात्रि को (वर्पसा) सूर्य के रूप से (अभिभूत्) तिरस्कृत करता है, तब (सूर्यस्य) सूर्य के (उर्ध्वम्) ऊपर स्थित (भानुम्) प्रकाश-मण्डल को (स्तभायन्) थामे हुए (अरतिः) सबका स्वामी वह परमेश्वर (दिवः) द्युलोक के (वसुभिः) ग्रह, नक्षत्र आदि लोकों से (विभाति) विशेष रूप से शोभित होता है ॥१॥
भावार्थ : भूमि पर और आकाश में व्याप्त काली रात्रि को छिन्न-भिन्न करके चमकीली उषा को और उसके अनन्तर तीव्र प्रकाशवाले सूर्य को उत्पन्न करता हुआ जगदीश्वर महिमा से अत्यधिक शोभा पाता है ॥२॥
In Sanskrit:
ऋषि : त्रित आप्तयः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अथ पुनरपि परमात्मनः कर्तृत्वमाह।
पदपाठ : कृष्णाम् । यत् । एनीम् । अभि । वर्पसा । भूत् । जनयत् । योषाम् । बृहतः । पितुः । जाम् । ऊर्ध्वम् । भानुम् । सूर्यस्य । स्तभायन् । दिवः । वसुभिः । अरतिः । वि । भाति॥
पदार्थ : (यत्) यदा (बृहतः पितुः) महतः पालकस्य सूर्यस्य (जाम्) दुहितरम् (योषाम्) उषसम् (जनयन्) जनिष्यमाणः अग्निः परमेश्वरः (एनीम्) व्याप्ताम् (कृष्णाम्) कृष्णवर्णां रात्रिम् (वर्पसा) सूर्यस्य रूपेण। [वर्पस् इति रूपनाम। निघं० ३।७।] (अभिभूत्) अभिभवति, तदा (सूर्यस्य) आदित्यस्य (ऊर्ध्वम्) उपरिस्थितम् (भानुम्) प्रकाशमण्डलम् (स्तभायन्) स्तम्भयन् (अरतिः) सर्वेषां स्वामी स परमेश्वरः (दिवः) द्युलोकस्य (वसुभिः) ग्रहनक्षत्रादिभिः लोकैः (विभाति) विशेषेण शोभते ॥२॥
भावार्थ : भुवि गगने च व्याप्तां कृष्णां निशां विच्छिद्य रोचमानामुषसं तदनन्तरं च प्रखरप्रकाशं सूर्यं जनयन् जगदीश्वरो महिम्नातितरां शोभते ॥२॥
टिप्पणी:१. ऋ० १०।३।२।