Samveda/1626
प्र तत्ते अद्य शिपिविष्ट हव्यमर्यः शसामि वयुनानि विद्वान्। तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके॥१६२६
Veda : Samveda | Mantra No : 1626
In English:
Seer : vasiShTho maitraavaruNiH | Devta : viShNuH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : pra tatte adya shipiviShTa havyamaryaH sha.m saami vayunaani vidvaan . ta.m tvaa gRRiNaami tavasamatavyaankShayantamasya rajasaH paraake.1626
Component Words : pra . tat . te . adya . a . dya . shipiviShTa . shipi . viShTa . havyam . aryaH . shasaami . vayunaani . vidvaana . tam . tvaa . gRRiNaami . tavasam . atavyaan . a . tvayaana . kShayantam . asya . rajasaH . paraake.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : विष्णुः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अगले मन्त्र में परमात्मा की स्तुति है।
पदपाठ : प्र । तत् । ते । अद्य । अ । द्य । शिपिविष्ट । शिपि । विष्ट । हव्यम् । अर्यः । शसामि । वयुनानि । विद्वान । तम् । त्वा । गृणामि । तवसम् । अतव्यान् । अ । त्वयान । क्षयन्तम् । अस्य । रजसः । पराके॥
पदार्थ : हे (शिपिविष्ट) तेज की किरणों से घिरे हुए अर्थात् तेजस्वी सर्वव्यापक विष्णु जगदीश्वर ! (अर्यः) स्तुतियों का ईश्वर और(वयुनानि विद्वान्) कर्तव्य कर्मों को जाननेवाला मैं (अद्य) आज(ते) आपके (तत्) उस प्रसिद्ध (हव्यम्) दान की (प्र शंसामि)प्रशंसा करता हूँ। (अतव्यान्) अमहान् मैं (तवसम्) महान् और(अस्य रजसः) इस रजोगुण के (पराके) परे (क्षयन्तम्) निवास करनेवाले (तम्) उस प्रसिद्ध (त्वा) आपकी (गृणामि) स्तुति करता हूँ ॥२॥
भावार्थ : अल्पशक्तिवाला मनुष्य महाशक्तिवाले परमात्मा के गुणों के स्मरण से निरभिमान होकर महान् कार्यों को करने के लिए अपने आत्मा में बल सञ्चित करे ॥२॥
In Sanskrit:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : विष्णुः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अथ परमात्मानं स्तौति।
पदपाठ : प्र । तत् । ते । अद्य । अ । द्य । शिपिविष्ट । शिपि । विष्ट । हव्यम् । अर्यः । शसामि । वयुनानि । विद्वान । तम् । त्वा । गृणामि । तवसम् । अतव्यान् । अ । त्वयान । क्षयन्तम् । अस्य । रजसः । पराके॥
पदार्थ : हे (शिपिविष्ट) तेजःकिरणैरावृत विष्णो सर्वव्यापक जगदीश! (अर्यः) स्तुतीनामीश्वरः। [अर्य इतीश्वरनाम। निघं० २।२२।] (वयुनानि विद्वान्) कर्तव्यकर्माणि जानानः अहम् (अद्य) अस्मिन् दिने (ते) तव (तत्) प्रसिद्धम् (हव्यम्) दानम् (प्र शंसामि) प्रकर्षेण स्तौमि। (अतव्यान्) अतवीयान्, अवृद्धतरः अहम् (तवसम्) प्रवृद्धम्, (अस्य रजसः) अस्य रजोगुणस्य(पराके) दूरे (क्षयन्तम्) क्षियन्तं निवसन्तम् (तम्) प्रसिद्धम्(त्वा) त्वाम्, (गृणामि) स्तौमि ॥२॥
भावार्थ : अल्पशक्तिर्मानवो महाशक्तेः परमात्मनो गुणानां स्मरणेन निरभिमानो भूत्वा महान्ति कार्याणि कर्तुं स्वात्मनि बलं सञ्चिनुयात् ॥२॥
टिप्पणी:१. ऋ० ७।१००।५, ‘हव्यमर्यः’ इत्यत्र ‘नामा॒र्यः’ इति पाठः।