Samveda/1673
तद्विप्रासो विपन्युवो जागृवासः समिन्धते। विष्णोर्यत्परमं पदम्॥१६७३
Veda : Samveda | Mantra No : 1673
In English:
Seer : medhaatithiH kaaNvaH | Devta : viShNuH | Metre : gaayatrii | Tone : ShaDjaH
Subject : English Translation will be uploaded as and when ready.
Verse : tadvipraaso vipanyuvo jaagRRivaa.m saH samindhate . viShNoryatparama.m padam.1673
Component Words : tat . vipraasaH . vi . praasaH . vipanyuvaH . jaagRRivaasaH . sam . indhate . viShNaaH . yat . paramam . padam.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : मेधातिथिः काण्वः | देवता : विष्णुः | छन्द : गायत्री | स्वर : षड्जः
विषय : आगे फिर उसी विषय का वर्णन है।
पदपाठ : तत् । विप्रासः । वि । प्रासः । विपन्युवः । जागृवासः । सम् । इन्धते । विष्णाः । यत् । परमम् । पदम्॥
पदार्थ : (विपन्यवः) विविध रूप में जगदीश्वर के गुणों की स्तुति करनेवाले, (जागृवांसः) जागरूक (विप्रासः) विप्रजन(यत्) जो (विष्णोः) सर्वव्यापक परमेश्वर का (परमम्) सर्वोत्कृष्ट (पदम्) प्राप्तव्य स्वरूप है, (तत्) उसे(समिन्धते) अपने अन्तरात्मा में भली-भाँति प्रकाशित कर लेते हैं ॥५॥
भावार्थ : जो मनुष्य अविद्या, आलस्य, अधर्माचरण रूप नींद को छोड़कर विद्या, धर्म, योगाभ्यास आदि के आचरण में जागरूक हैं, वे ही सच्चिदानन्दस्वरूप, सर्वोत्तम, सर्वव्यापी, सबसे प्राप्त करने योग्य जगदीश्वर को पाने में समर्थ होते हैं ॥५॥
In Sanskrit:
ऋषि : मेधातिथिः काण्वः | देवता : विष्णुः | छन्द : गायत्री | स्वर : षड्जः
विषय : अथ पुनः स एव विषय उच्यते।
पदपाठ : तत् । विप्रासः । वि । प्रासः । विपन्युवः । जागृवासः । सम् । इन्धते । विष्णाः । यत् । परमम् । पदम्॥
पदार्थ : (विपन्यवः) विविधं जगदीश्वरस्य गुणान् पनायन्ति स्तुवन्ति ये ते।[पण व्यवहारे स्तुतौ च, पन च। बाहुलकादौणादिको युच् प्रत्ययः।] (जागृवांसः) जागरूकाः। [अत्र जागर्तेर्लिटः स्थाने क्वसुः। द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्। अ० ६।१।६ अनेन द्विर्वचनाभावश्च।] (विप्रासः) विपश्चितो जनाः (यत् विष्णोः) सर्वव्यापकस्य परमेश्वरस्य (परमम्) सर्वोत्कृष्टम् (पदम्) प्राप्तव्यं स्वरूपम् अस्ति (तत् समिन्धते) स्वान्तरात्मनि सम्यक् प्रकाशयन्ते ॥५॥२
भावार्थ : ये मनुष्या अविद्यालस्याऽधर्माचरणाख्यां निद्रां विहाय विद्याधर्मयोगाभ्यासादिचरणे जागरूकाः सन्ति त एव सच्चिदानन्दस्वरूपं सर्वोत्तमं सर्वव्यापिनं सर्वैः प्राप्तुमर्हं जगदीश्वरं प्राप्तुं शक्नुवन्ति ॥५॥
टिप्पणी:१. ऋ० १।२२।२१; य० ३४।४४। उभयत्र ‘विप॒न्यवो॑’ इति भेदः।२. ऋग्भाष्ये यजुर्भाष्ये च दयानन्दर्षिरपि मन्त्रमेतं परमात्मप्राप्तिविषये व्याचष्टे।