Donation Appeal
Choose Mantra
Samveda/1748

यदीं गणस्य रशनामजीगः शुचिरङ्ते शुचिभिर्गोभिरग्निः। आद्दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभिः (लि)।। [धा. । उ नास्ति । स्व. ।]॥१७४८

Veda : Samveda | Mantra No : 1748

In English:

Seer : budhagaviShTiraavaatreyau | Devta : agniH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : yadii.m gaNasya rashanaamajiigaH shuchira~Nkte shuchibhirgobhiragniH . aaddakShiNaa yujyate vaajayantyuttaanaamuurdhvo adhayajjuhuubhiH.1748

Component Words :
yat . iim . gaNasya . rashanaam . ajiigariti . shuchiH . a~Nkte . shuchibhiH . gobhiH . agniH . aat . dakShiNaa . yujyate . vaajayanti . uttaanaam . uurddhvaH . adhyat . juhuubhiH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : बुधगविष्टिरावात्रेयौ | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अगले मन्त्र में उपास्य-उपासक का विषय है।

पदपाठ : यत् । ईम् । गणस्य । रशनाम् । अजीगरिति । शुचिः । अङ्क्ते । शुचिभिः । गोभिः । अग्निः । आत् । दक्षिणा । युज्यते । वाजयन्ति । उत्तानाम् । ऊर्द्ध्वः । अध्यत् । जुहूभिः॥

पदार्थ : (यत्) जब (ईम्) यह उपासक (गणस्य) स्तुति-समूह की (रशनाम्) शृङ्खला को (अजीगः) ध्वनित करता है, तब (शुचिः) पवित्र और देदीप्यमान (अग्निः) परमेश्वर (शुचिभिः) पवित्र और देदीप्यमान (गोभिः) तेजों से (अङ्क्ते) उसे प्रकाशित करता है। (आत्) तदनन्तर (वाजयन्ति) उपासक को बलवान् करती हुई (दक्षिणा) आत्मसमर्पण की क्रिया (युज्यते) प्रवृत्त होती है। (ऊर्ध्वः) सर्वोन्नत जगदीश्वर (जुहूभिः) वाणियों से (उत्तानाम्) उच्चारण की हुई स्तुति को (अधयत्) पान करता है ॥३॥

भावार्थ : उपासक के हृदय से निकली हुई पवित्र स्तुति को जगदीश्वर अवश्य स्वीकार करता है और उपासक को कृतकृत्य कर देता है ॥३॥


In Sanskrit:

ऋषि : बुधगविष्टिरावात्रेयौ | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अथोपास्योपासकविषयमाह।

पदपाठ : यत् । ईम् । गणस्य । रशनाम् । अजीगरिति । शुचिः । अङ्क्ते । शुचिभिः । गोभिः । अग्निः । आत् । दक्षिणा । युज्यते । वाजयन्ति । उत्तानाम् । ऊर्द्ध्वः । अध्यत् । जुहूभिः॥

पदार्थ : (यत्) यदा (ईम्) अयम् उपासकः (गणस्य) स्तोत्रसमूहस्य (रशनाम्) शृङ्खलाम् (अजीगः) गृणाति शब्दयति। [गॄ शब्दे धातोर्लडर्थे लुङ्।] तदा (शुचिः) पवित्रः शोचमानश्च (अग्निः) परमेश्वरः (शुचिभिः) पवित्रैः शोचमानैश्च (गोभिः) तेजोभिः (अङ्क्ते) तं प्रकाशयति। [अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु।] (आत्) तदनन्तरम् (वाजयन्ती) उपासकं बलिनं कुर्वती (दक्षिणा) आत्मसमर्पणक्रिया (युज्यते) प्रवर्तते। (ऊर्ध्वः) सर्वोन्नतो जगदीश्वरः, (जुहूभिः) वाग्भिः। [वाग् जुहूः। तै० आ० २।१७।२।] (उत्तानाम्) उद्गतां स्तुतिम् (अधयत्) पिबति ॥३॥२

भावार्थ : उपासकस्य हृदयान्निर्गतां पवत्रां स्तुतिं जगदीश्वरोऽवश्यं स्वीकरोत्युपासकं च कृतकृत्यं विदधाति ॥३॥

टिप्पणी:१. ऋ० ५।१।३।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतं ‘ये समुदायस्य सन्तोषं जनयन्ति ते किरणैः सूर्य इव सर्वत्र यशसा प्रकाशिता जायन्ते’ इति विषये व्याचष्टे।