Samveda/1804
रेवाइद्रेवत स्तोता स्यात्त्वावतो मघोनः। प्रेदु हरिवः सुतस्य॥१८०४
Veda : Samveda | Mantra No : 1804
In English:
Seer : medhaatithiH kaaNvaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH
Subject : English Translation will be uploaded as and when ready.
Verse : revaa.m idrevata stotaa syaattvaavato maghonaH . predu harivaH sutasya.1804
Component Words : revaan . it . revataH . stotaa . svaat . tvaavataH . maghonaH . pra . it . u . harivaH . sutasya.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : मेधातिथिः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः
विषय : प्रथम मन्त्र में परमात्मा से प्रार्थना की गयी है।
पदपाठ : रेवान् । इत् । रेवतः । स्तोता । स्वात् । त्वावतः । मघोनः । प्र । इत् । उ । हरिवः । सुतस्य॥
पदार्थ : हे (हरिवः) दोषों को हरनेवाले इन्द्र जगदीश्वर ! (सुतस्य) अन्तरात्मा में प्रकट किये गए, (रेवतः) ऐश्वर्यवान् (मघोनः) दानी (त्वावतः) आप जैसे ही आपका अर्थात् जिसके तुल्य या जिससे बढ़कर संसार में अन्य कोई नहीं है, ऐसे आपका (स्तोता) उपासक (इत् उ) अवश्यमेव (रेवान् इत्) ऐश्वर्यवान् ही (प्र स्यात्) होवे ॥१॥‘त्वावतः’ में अनन्वय अलङ्कार है। ‘रेवाँ इद् रेवतः स्तोता’ में समालङ्कार व्यङ्ग्य है ॥१॥
भावार्थ : ऐश्वर्यवान् परमेश्वर अपने उपासक को भी ऐश्वर्यवान् कर देता है ॥१॥
In Sanskrit:
ऋषि : मेधातिथिः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः
विषय : तत्रादौ परमात्मानं प्रार्थयते।
पदपाठ : रेवान् । इत् । रेवतः । स्तोता । स्वात् । त्वावतः । मघोनः । प्र । इत् । उ । हरिवः । सुतस्य॥
पदार्थ : हे (हरिवः) दोषहरणगुणोपेत इन्द्र जगदीश्वर ! (सुतस्य) अन्तरात्मनि प्रकटीकृतस्य (रेवतः) ऐश्वर्यवतः (मघोनः) दानवतः (त्वावतः) त्वत्सदृशस्य तव (स्तोता) उपासकः (रेवान् इत्) ऐश्वर्यवानेव (इत् उ) अवश्यमेव ( प्र स्यात्) प्रजायेत। [हरिवः, हरिवन् ‘मतुवसो रु सम्बुद्धौ छन्दसि’ अ० ८।३।१ इति नकारस्य रुत्वम्। रेवतः, ‘रयेर्मतौ बहुलम्’ वा० ६।१।३४ इति रयेर्यकारस्य सम्प्रसारणम्। मघोनः, मंहतिर्दानकर्मा। निरु० १।६। त्वावतः, ‘युष्यदस्मदोः सादृश्ये वतुब् वाच्यः’ वा० ५।१।६१ इति सादृश्यार्थे वतुप्] ॥१॥‘त्वावतः त्वत्सदृशस्य तव’ इत्यत्रानन्वयालङ्कारः। ‘रेवाँ इद् रेवतः स्तोता’ इत्यत्र समालङ्कारो ध्वन्यते ॥१॥
भावार्थ : ऐश्वर्यवान् जगदीश्वरः स्वोपासकमप्यैश्वर्यवन्तं करोति ॥१॥
टिप्पणी:१. ऋ० ८।२।१३, ‘सुतस्य’, इत्यत्र ‘श्रु॒तस्य॑’ इति भेदः।