Samveda/1849
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम्। सङ्क्रन्दनोऽनिमिष एकवीरः शत सेना अजयत्साकमिन्द्रः॥१८४९
Veda : Samveda | Mantra No : 1849
In English:
Seer : apratiratha aindraH | Devta : indraH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : aashuH shishaano vRRiShabho na bhiimo ghanaaghanaH kShobhaNashcharShaNiinaam . sa~Nkrandano.animiSha ekaviiraH shata.m senaa ajayatsaakamindraH.1849
Component Words : aashuH . shishaanaH . vRRiShabhaH . na . bhiimaH . ghanaaghanaH . kShiibhaNaH . charShaNiinaam . sa.mkrandanaH . sam . krandanaH . animiShaH . a . nimiShaH . ekaviiraH . eka . viiraH . shatam . senaaH . ajayat . saakam . indraH.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : अप्रतिरथ ऐन्द्रः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : प्रथम मन्त्र में सेनापति के दृष्टान्त से जीवात्मा का वर्णन है।
पदपाठ : आशुः । शिशानः । वृषभः । न । भीमः । घनाघनः । क्षीभणः । चर्षणीनाम् । संक्रन्दनः । सम् । क्रन्दनः । अनिमिषः । अ । निमिषः । एकवीरः । एक । वीरः । शतम् । सेनाः । अजयत् । साकम् । इन्द्रः॥
पदार्थ : (आशुः) शीघ्रकारी, (शिशानः वृषभः न) तीक्ष्ण सींगोंवाले बैल के समान (भीमः) विघ्न डालनेवालों के लिए भयङ्कर, (घनाघनः) द्वेषियों का वध करनेवाला, (चर्षणीनाम्) बाधा डालनेवाले मनुष्यों को (क्षोभणः) विक्षुब्ध कर देनेवाला, (सङ्क्रन्दनः) शत्रुओं को रुलानेवाला, (अनिमिषः) लक्ष्य पर अपलक दृष्टि रखनेवाला, (एकवीरः) अद्वितीय वीर, (इन्द्रः) सेनापति के तुल्य जीवात्मा (साकम्) एक साथ (शतं सेनाः) सौ आन्तरिक और बाह्य सेनाओं को (अजयत्) जीत सकता है ॥१॥यहाँ उपमालङ्कार तथा वीर रस है ॥१॥
भावार्थ : जैसे राष्ट्र में वीर सेनापति अपने पराक्रम से सब शत्रु सेनाओं को जीत लेता है, वैसे ही शरीर में जीवात्मा आन्तरिक और बाह्य देवासुरसङ्ग्राम में सब विघ्नकारियों को जीत कर अपना साम्राज्य स्थापित करे ॥१॥
In Sanskrit:
ऋषि : अप्रतिरथ ऐन्द्रः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : तत्रादौ सेनापतिदृष्टान्तेन जीवात्मा वर्ण्यते।
पदपाठ : आशुः । शिशानः । वृषभः । न । भीमः । घनाघनः । क्षीभणः । चर्षणीनाम् । संक्रन्दनः । सम् । क्रन्दनः । अनिमिषः । अ । निमिषः । एकवीरः । एक । वीरः । शतम् । सेनाः । अजयत् । साकम् । इन्द्रः॥
पदार्थ : (आशुः) शीघ्रकारी, (शिशानः वृषभः न) तीक्ष्णशृङ्गो वृष इव (भीमः) विघ्नकारिणां भयजनकः, (घनाघनः२) द्वेष्टॄणां हन्ता, (चर्षणीनाम्) बाधकानां मनुष्याणां (क्षोभणः) विक्षोभयिता, (सङ्क्रन्दनः) शत्रुरोदकः, (अनिमिषः) निर्निमेषः सन् लक्ष्ये बद्धदृष्टिः, (एकवीरः) अद्वितीयः शूरः इन्द्रः सेनापतिरिव जीवात्मा (साकम्) युगपत् (शतं सेनाः) शतसंख्यकाः आभ्यन्तर्यो बाह्याश्च चमूः (अजयत्) जयति ॥१॥३अत्रोपमालङ्कारो वीरो रसश्च ॥१॥
भावार्थ : यथा राष्ट्रे वीरः सेनापतिः स्वपराक्रमेण सर्वाः शत्रुसेना जयति तथैव देहे जीवात्माऽऽभ्यन्तरे बाह्ये च देवासुरसंग्रामे सर्वान् विघ्नकारिणो विजित्य स्वसाम्राज्यं स्थापयेत् ॥१॥
टिप्पणी:१. ऋ० १०।१०३।१; य० १७।३३; अथ० १९।१३।२।२. घनाघनः घातकः शत्रूणां हन्ता। पचाद्यचि हन्तेर्घत्वं चेति द्विर्वचनम् अभ्यासस्याडागमः घत्वं च धात्वभ्यासयोः—इति सा०।३. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सेनापतिकृत्यविषये व्याख्यातवान्।