Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 4 / 13 / 5

आ त्वा॑गमं॒ शंता॑तिभि॒रथो॑ अरि॒ष्टता॑तिभिः। दक्षं॑ त उ॒ग्रमाभा॑रिषं॒ परा॒ यक्ष्मं॑ सुवामि ते ॥ 5॥

Veda : Atharvaveda | Kand : 4 | Sukta : 13 | Paryay : | Mantra No : 5

In Hindi:

ऋषि : शन्तातिः | देवता : चन्द्रमाः, विश्वे देवाः | छन्द : अनुष्टुप् | स्वर :

विषय : स्वास्थ्यरक्षा का उपदेश।

पदपाठ : आ । त्वा॒ । अ॒ग॒म॒म् । शंता॑तिऽभि: । अथो॒ इति॑ । अ॒रि॒ष्टता॑तिऽभि: । दक्ष॑म् । ते॒ । उ॒ग्रम् । आ । अ॒भा॒रि॒ष॒म् । परा॑ । यक्ष्म॑म् । सु॒वा॒मि॒ । ते॒ ॥१३.५॥

पदार्थ : [हे प्राणी !] (त्वा) तुझको (शन्तातिभिः) शान्तिदायक कर्मों से (अथो) और भी (अरिष्टतातिभिः) अहिंसाकारक कर्मों से (आगमम्) मैं प्राप्त हुआ हूँ। (ते) तेरे लिये (उग्रम्) उग्र (दक्षम्) वृद्धिकारक बल (आ अभारिषम्) मैं लाया हूँ, [उससे] (ते) तेरे (यक्ष्मम्) महारोग को (परा सुवामि) दूर हटाता हूँ ॥५॥"

भावार्थ : मनुष्य श्वास-प्रश्वास और पञ्च भूतों की यथावत् समता और ब्रह्मचर्य आदि शुभ कर्मों द्वारा दुष्कर्मों से बच कर बलवान् धनवान् और नीरोग होवे ॥५॥

टिप्पणी :५−(त्वा) त्वां प्राणिनम् (आगमम्) गमेर्लुङि रूपम्। आगतवान् प्राप्तवानस्मि (शंतातिभिः) शिवशमरिष्टस्य करे। पा० ४।४।१४३। इति करणेऽर्थे तातिल् प्रत्ययः। लिति। पा० ६।१।१९३। इति प्रत्ययपूर्व उदात्तः। शंकरैः सुखकरैः कर्मभिः (अथो) अपि च (अरिष्टतातिभिः) पूर्ववत् तातिल्, उदात्तत्वं च। अरिष्टम् अहिंसा। तत्करैः श्रेयोहेतुभिः कर्मभिः (दक्षम्) वृद्धिकरं बलम् (ते) तुभ्यम् (उग्रम्) उद्गूर्णम्। तीव्रम् (आ अभारिषम्) हस्य भकारः। आहार्षम्। आहृतवानस्मि। आनैषम् (यक्ष्मम्) महारोगम् (परा सुवामि) षू प्रेरणे, तौदादिकः। पराङ्मुखं प्रेरयामि (ते) तव ॥