Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 4 / 22 / 3

अ॒यम॑स्तु॒ धन॑पति॒र्धना॑नाम॒यं वि॒शां वि॒श्पति॑रस्तु॒ राजा॑। अ॒स्मिन्नि॑न्द्र॒ महि॒ वर्चां॑सि धेह्यव॒र्चसं॑ कृणुहि॒ शत्रु॑मस्य ॥ 3॥

Veda : Atharvaveda | Kand : 4 | Sukta : 22 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : वसिष्ठः, अथर्वा वा | देवता : इन्द्रः, क्षत्रियो राजा | छन्द : त्रिष्टुप् | स्वर :

विषय : संग्राम में जय के लिये उपदेश।

पदपाठ : अ॒यम् । अ॒स्तु॒ । धन॑ऽपति: । धना॑नाम् । अ॒यम् । वि॒शाम् । वि॒श्पति॑: । अ॒स्तु॒ । राजा॑ । अ॒स्मिन् । इ॒न्द्र॒ । महि॑ । वर्चां॑सि । धे॒हि॒ । अ॒व॒र्चस॑म् । कृ॒णु॒हि॒ । शत्रु॑म् । अ॒स्य॒ ॥२२.३॥

पदार्थ : (अयम्) यह (धनानाम्) बहुत प्रकार के धनों का (धनपतिः) धनपति (अस्तु) होवे। (अयम्) यह (राजा) राजा (विशाम्) बहुत प्रजाओं का (विश्पतिः) प्रजापति (अस्तु) होवे। (इन्द्र) हे परमेश्वर ! (अस्मिन्) इस राज्य में (महि=महीनि) बड़े-बड़े (वर्चांसि) तेजों को (धेहि) धारण कर, (अस्य) इसके (शत्रुम्) वैरी को (अवर्चसम्) निस्तेज (कृणुहि) करदे ॥३॥"

भावार्थ : राजा परमेश्वर के अनुग्रह से पुरुषार्थपूर्वक बहुत धन एकत्र करके प्रजा की रक्षा करे और महाप्रतापी होकर शत्रुओं को वश में रक्खे ॥३॥

टिप्पणी :३−(अयम्) (अस्तु) (धनपतिः) धनानां निधीनां पालकः (धनानाम्) बहुविधधनानाम् (विशाम्) बहुप्रजानाम् (विश्पतिः) प्रजापालकः (राजा) (अस्मिन्) राजनि (इन्द्र) हे परमात्मन् (महि) सर्वधातुभ्य इन्। उ० ४।११८। इति मह पूजायाम्-इन्। सुपां सुलुक्०। पा० ७।१।३९। इति शसः सुः। महीनि महान्ति (वर्चांसि) तेजांसि (धेहि) धारय (अवर्चसम्) अतेजस्कम् (कृणुहि) कुरु (शत्रुम्) (अस्य) ॥