Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 5 / 4

यद्द॒ण्डेन॒ यदिष्वा॒ यद्वारु॒र्हर॑सा कृ॒तम्। तस्य॒ त्वम॑सि॒ निष्कृ॑तिः॒ सेमं निष्कृ॑धि॒ पूरु॑षम् ॥ 4॥

Veda : Atharvaveda | Kand : 5 | Sukta : 5 | Paryay : | Mantra No : 4

In Hindi:

ऋषि : अथर्वा | देवता : लाक्षासूक्तम् | छन्द : अनुष्टुप् | स्वर :

विषय : ब्रह्म विद्या का उपदेश।

पदपाठ : यत् । द॒ण्डेन॑ । यत् । इष्वा॑ । यत् । वा॒ । अरु॑: । हर॑सा । कृ॒तम् । तस्य॑ । त्वम् । अ॒सि॒ । नि:ऽकृ॑ति: । सा । इ॒मम् । नि: । कृ॒धि॒। पुरु॑षम् ॥५.४॥

पदार्थ : (यत्) जो कुछ (दण्डेन) दण्डे से, (यत्) जो कुछ (इष्वा) तीर से, (वा) अथवा (यत्) जो कुछ (अरुः) घाव (हरसा) बल से (कृतम्) किया गया है। (तस्य) उस की (त्वम्) तू (निष्कृतिः) चंगा करनेवाली शक्ति (असि) है, (सा) सो तू (इमम्) इस (पुरुषम्) पुरुष को (निष्कृधि) चंगा कर दे ॥४•॥"

भावार्थ : परमेश्वर ने प्रत्येक रोग के लिये औषधि उत्पन्न की है, मनुष्य उसके प्रयोग से यथावत् सुख प्राप्त करें ॥४•॥

टिप्पणी :४−(यत्) किञ्चित् (दण्डेन) ञमन्ताड् डः। उ० १।११४। इति दमु उपशमे−ड। लगुडेन (यत्) (इष्वा) शरेण (अरुः) अर्तिपॄवपि०। उ० २।११७। इति ऋ गतौ हिंसायां च−उसि। क्षतम् (हरसा) बलेन (कृतम्) निष्पादितम् (तस्य) अरुषः (त्वम्) (असि) (निष्कृतिः) बहिष्करणशक्तिः (सा) सा त्वाम् (इमम्) दृश्यमानम् (निष्कृधि) नीरोगं कुरु। उद्धर (पुरुषम्) जीवम् ॥