Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 12 / 5

व्यच॑स्वतीरुर्वि॒या वि श्र॑यन्तां॒ पति॑भ्यो॒ न जन॑यः॒ शुम्भ॑मानाः। देवी॑र्द्वारो बृह॒तीर्वि॑श्वमिन्वा दे॒वेभ्यो॑ भवत सुप्राय॒णाः ॥ 5॥

Veda : Atharvaveda | Kand : 5 | Sukta : 12 | Paryay : | Mantra No : 5

In Hindi:

ऋषि : अङ्गिराः | देवता : जातवेदा अग्निः | छन्द : त्रिष्टुप् | स्वर :

विषय : मनुष्य की उन्नति का उपदेश।

पदपाठ : व्यच॑स्वती: । उ॒र्वि॒या । वि । श्र॒य॒न्ता॒म् । पति॑ऽभ्य: । न । जन॑य: । शुम्भ॑माना: । देवी॑: । द्वा॒र॒: । बृ॒ह॒ती॒: । वि॒श्व॒म्ऽइ॒न्वा॒: । दे॒वेभ्य॑: । भ॒व॒त॒ । सु॒ऽप्रा॒य॒ना: ॥१२.५॥

पदार्थ : (व्यचस्वतीः) व्याप्तिवाली प्रजायें (उर्व्या) विस्तीर्ण कर्म को (वि) विशेष करके (श्रयन्ताम्) सेवन करें, (न) जैसे (शुम्भमानाः) शोभायमान (जनयः) स्त्रियाँ (पतिभ्यः) अपने पतियों के लिये। (देवीः) प्रकाशमान (बृहतीः) बड़ी (विश्वमिन्वाः) सब व्यवहार में व्याप्ति रखनेवाली प्रजाओ ! तुम (देवेभ्यः) उत्तम गुणों के लिये (सुप्रायणाः) बड़े उत्तम घरवाले (द्वारः) द्वारों के समान (भवत) हो जावो ॥५॥"

भावार्थ :

टिप्पणी :५−(व्यचस्वतीः) वि+अञ्चु गतौ−असुन्। व्यञ्चनवत्यः प्रजाः (उर्व्या) इयाडियाजीकाराणामुपसंख्यानम्। वा० पा० ७।१।३९। इति विभक्तेरियाच्। उरु विस्तीर्णं कर्म (वि) विशेषेण (श्रयन्ताम्) सेवन्ताम् (पतिभ्यः) स्वस्वामिभ्यः (न) इव (जनयः) जायाः। स्त्रियः (शुम्भमानाः) शोभायमानाः (देवीः) देव्यः। देदीप्यमानाः (द्वारः) द्वृ आच्छादने−विच्। गृहादिगमननिर्गमनस्थानानि (बृहतीः) महत्यः। (विश्वमिन्वाः) इवि व्याप्तौ−पचाद्यच्, वा खल्। सर्वव्यवहारव्यापिन्यः (देवेभ्यः) दिव्यगुणेभ्यः (भवत) (सुप्रायणाः) सुष्ठु प्रकृष्टमयनं गृहं यासु ता द्वारः ॥