Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 13 / 9

क॒र्णा श्वा॒वित्तद॑ब्रवीद्गि॒रेर॑वचरन्ति॒का। याः काश्चे॒माः ख॑नि॒त्रिमा॒स्तासा॑मर॒सत॑मं वि॒षम् ॥ 9॥

Veda : Atharvaveda | Kand : 5 | Sukta : 13 | Paryay : | Mantra No : 9

In Hindi:

ऋषि : गरुत्मान् | देवता : तक्षकः | छन्द : भुरिग्जगती | स्वर :

विषय : दोषनिवारण के लिये उपदेश।

पदपाठ : क॒र्णा । श्वा॒वित् । तत् । अ॒ब्र॒वी॒त् । गि॒रे: । अ॒व॒ऽच॒र॒न्ति॒का । या: । का: । च॒ । इ॒मा: । ख॒नि॒त्रिमा॑: । तासा॑म् । अ॒र॒सऽत॑मम् । वि॒षम् ॥१३.९॥

पदार्थ : (गिरेः) पहाड़ के (अवचरन्तिका) नीचे घूमनेवाली (कर्णा) कानवाली (श्वावित्) साही (तत्) यह (अब्रवीत्) बोली, (याः काः) जो कोई (च) (इमाः) यह सब (खनित्रिमाः) खनती में रहनेवाली [साँपिनी] हैं, (तासाम्) उनका (विषम्) विष (अरसतमम्) अत्यन्त निर्बल होवे ॥९॥"

भावार्थ :

टिप्पणी :९−(कर्णा) कर्ण−पचाद्यच्। कर्णयुक्ता (श्वावित्) शुना आविध्यते श्वन्+आ−व्यध ताडने−क्विप्। शल्यकी (तत्) (अब्रवीत्) अकथयत् (गिरेः) शैलस्य (अवचरन्तिका) चर−शतृ, ङीप्, स्वार्थे कन्, टाप्। अधोभागे चरणशीला (याः) (काः) (च) पादपूरणे (इमाः) (खनित्रिमाः) राशदिभ्यां त्रिप्। उ० ४।६७। इति खनु विदारणे−त्रिप्, इडागमः। खनित्रिं मायते। माङ् माने−क। खनित्रौ गर्ते मानशीला निवासशीलाः। सर्पिण्यः (तासाम्) सर्पिणीनाम् (अरसतमम्) अतिशयेन निर्बलम् (विषम्) सरलम् ॥