Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 30 / 12

नमो॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॒ नमः॑ पि॒तृभ्य॑ उ॒त ये नय॑न्ति। उ॒त्पार॑णस्य॒ यो वेद॒ तम॒ग्निं पु॒रो द॑धे॒ऽस्मा अ॑रि॒ष्टता॑तये ॥ 12॥

Veda : Atharvaveda | Kand : 5 | Sukta : 30 | Paryay : | Mantra No : 12

In Hindi:

ऋषि : चातनः | देवता : आयुः | छन्द : चतुष्पदा विराड्जगती | स्वर :

विषय : आत्मा के उन्नति का उपदेश।

पदपाठ : नम॑: । य॒माय॑ । नम॑: । अ॒स्तु॒ । मृ॒त्यवे॑ । नम॑: । पि॒तृऽभ्य॑: । उ॒त । ये । नय॑न्ति । उ॒त्ऽपार॑णस्य । य: ।वेद॑ । तम् । अ॒ग्निम् । पु॒र: । द॒धे॒ । अ॒स्मै । अ॒रि॒ष्टऽता॑तये ॥३०.१२॥

पदार्थ : (यमाय) न्यायकारी परमात्मा को (मृत्यवे) मृत्यु नाश करने के लिये (नमः) (नमः) वारंवार नमस्कार (अस्तु) होवे, (उत) और (पितृभ्यः) उन रक्षक महापुरुषों को (नमः) नमस्कार हो (ये) जो [हमें] (नयन्ति) ले चलते हैं। (यः) जो परमेश्वर (उत्पारणस्य) पार लगाना (वेद) जानता है, (तम्) उस (अग्निम्) ज्ञानवान् परमेश्वर को (अस्मै) इस जीव के लिये (अरिष्टतातये) कल्याण करने को (पुरः) आगे (दधे) रखता हूँ [पूजता हूँ] ॥१२॥"

भावार्थ :

टिप्पणी :१२−(नमः) (नमः) वारंवारं सत्कारः (यमाय) न्यायकारिणे परमात्मने (अस्तु) (मृत्यवे) क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० २।३।१४। इत्यप्रयुज्यमानस्य धातोः कर्मणि चतुर्थी। मृत्युं नाशयितुम् (नमः) (पितृभ्यः) रक्षकेभ्यो महापुरुषेभ्यः (उत) अपि (ये) पितरः (नयन्ति) प्रेरयन्ति (उत्पारणस्य) पार कर्मसमाप्तौ−ल्युट्। उत्कर्षेण पारकरणस्य (यः) परमेश्वरः (वेद) वेत्तास्ति (तम्) (अग्निम्) ज्ञानवन्तं परमेश्वरम् (पुरः दधे) अग्रे धरामि। पूजयामि (अस्मै) पुरुषाय (अरिष्टतातये) अ० ३।५।५। क्षेमकरणाय ॥