Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 5 / 30 / 13

ऐतु॑ प्रा॒ण ऐतु॒ मन॒ ऐतु॒ चक्षु॒रथो॒ बल॑म्। शरी॑रमस्य॒ सम्वि॑दां॒ तत्प॒द्भ्यां प्रति॑ तिष्ठतु ॥ 13॥

Veda : Atharvaveda | Kand : 5 | Sukta : 30 | Paryay : | Mantra No : 13

In Hindi:

ऋषि : चातनः | देवता : आयुः | छन्द : अनुष्टुप् | स्वर :

विषय : आत्मा के उन्नति का उपदेश।

पदपाठ : आ । ए॒तु॒ । प्रा॒ण: । आ । ए॒तु॒ । मन॑: । आ । ए॒तु॒ । चक्षु॑: । अथो॒ इति॑ । बल॑म् । शरी॑रम् । अ॒स्य॒ । सम् । वि॒दा॒म् । तत् । प॒त्ऽभ्याम् । प्रति॑ । ति॒ष्ठ॒तु॒ ॥३०.१३॥

पदार्थ : (प्राणः) प्राण, पुरुषार्थ [इसमें] (आ एतु) आवे, (मनः) मन (आ एतु) आवे, (अथो) और भी (चक्षुः) दृष्टि और (बलम्) बल (आ एतु) आवे। (तत्) उससे (अस्य) इस पुरुष का (शरीरम्) शरीर (विदां प्रति) बुद्धि की ओर (पद्भ्याम्) दोनों पैरों से (सम्) ठीक-ठीक (तिष्ठतु) खड़ा होवे ॥१३॥"

भावार्थ :

टिप्पणी :१३−(आ एतु) आगच्छतु (प्राणः) जीवनसामर्थ्यम् (मनः) मनोबलम् (आ एतु) (चक्षुः) दृष्टिः (अथो) अपि च (बलम्) शक्तिः (शरीरम्) देहः (अस्य) पुरुषस्य (सम्) सम्यक् (विदाम्) षिद्भिदादिभ्योऽङ्। पा० ३।३।१०४। इति विद ज्ञाने−अङ्, टाप्। बुद्धिम् (तत्) ततः पुरुषार्थात् (पद्भ्याम्) (प्रति) व्याप्य (तिष्ठतु) स्थितं समर्थं भवतु ॥