Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 15 / 1

उ॑त्त॒मो अ॒स्योष॑धीनां॒ तव॑ वृ॒क्षा उ॑प॒स्तयः॑। उ॑प॒स्तिर॑स्तु॒ सो॒स्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥ 1॥

Veda : Atharvaveda | Kand : 6 | Sukta : 15 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : उद्दालक | देवता : वनस्पतिः | छन्द : अनुष्टुप् | स्वर :

विषय : उत्तम गुणों की प्राप्ति का उपदेश।

पदपाठ : उ॒त्ऽत॒म: । अ॒सि॒ । ओष॑धीनाम् । तव॑ । वृ॒क्षा: । उ॒प॒ऽस्तय॑: । उ॒प॒ऽस्ति: । अ॒स्तु॒ । स: । अ॒स्माक॑म् । य: । अ॒स्मान् । अ॒भि॒ऽदास॑ति ॥१५.१॥

पदार्थ : [हे परमेश्वर !] (ओषधीनाम्) सब तापनाशक ओषधियों में तू (उत्तमः) उत्तम (असि) है, (वृक्षाः) सब स्वीकार करने योग्य गुण (तव) तेरे (उपस्तयः) उपासक [अधीन] हैं। (सः) वह पुरुष (अस्माकम्) हमारे (उपस्तिः) अधीन (अस्तु) होवे, (यः) जो (अस्मान्) हमें (अभिदासति) सतावे ॥१॥"

भावार्थ :

टिप्पणी :१−(उत्तमः) सर्वोत्कृष्टः (असि) (ओषधीनाम्) अ० १।३०।३। तापनाशकानां पदार्थानाम् (तव) (वृक्षाः) वृक्ष वरणे−क। वरणीयाः श्रेष्ठाः गुणाः (उपस्तयः) अ० ३।५।६। उपासकाः। वशीभूताः (उपस्तिः) उपासकः (अस्तु) (सः) शत्रुः (अस्माकम्) (यः) (अस्मान्) धार्मिकान् (अभिदासति) अ० ४।१९।५। अभितो हिनस्ति ॥