Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 57 / 3

शं च॑ नो॒ मय॑श्च नो॒ मा च॑ नः॒ किं च॒नाम॑मत्। क्ष॒मा रपो॒ विश्वं॑ नो अस्तु भेष॒जं सर्वं॑ नो अस्तु भेष॒जम् ॥ 3॥

Veda : Atharvaveda | Kand : 6 | Sukta : 57 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : शन्ताति | देवता : रुद्रः | छन्द : पथ्याबृहती | स्वर :

विषय : दोष के नाश के लिये उपदेश।

पदपाठ : शम् । च॒ । न॒: । मय॑: । च॒ । न॒: । मा । च॒ । न॒: । किम् । च॒न । आ॒म॒म॒त् । क्ष॒मा । रप॑: । विश्व॑म् । न॒: । अ॒स्तु॒ । भे॒ष॒ज॒म् । सर्व॑म् । न॒: । अ॒स्तु॒ । भे॒ष॒जम् ॥५७.३॥

पदार्थ : (च) निश्चय करके (नः) हमारे लिये (शम्) शान्ति (च) और (नः) हमारे लिये (मयः) सुख होवे, (च) और (नः) हमें (किं चन) कोई भी दुःख (मा आममत्) न पीड़ा देवे। (रपः=रपसः) पाप की (क्षमा) क्षमा हो। (विश्वम्) सब जगत् (नः) हमारे लिये (भेषजम्) भयनिवारक (अस्तु) होवे, (सर्वम्) सब (नः) हमारे लिये (भेषजम्) रोगनाशक (अस्तु) होवे ॥३॥"

भावार्थ :

टिप्पणी :३−(शम्) शान्तिः। स्वास्थ्यम् (च) निश्चयेन (नः) अस्मभ्यम् (मयः) अ० १।१३।२। सुखम् (च) समुच्चये (नः) (च) (नः) अस्मान् (किंचन) किमपि दुःखम् (मा आममत्) अम पीडने−लुङि चङि रूपम्। न पीडयेत् (क्षमा) क्षमूष् सहने−अङ्। क्षान्तिः। उपशमः (रपः) अ० ४।१३।२। रपो रप्रमिति पापनामनी। भवतः−निरु० ४।२१। सुपां सुलुक्०। पा० ७।१।३९। इति षष्ठ्या लुक्। रपसः। दोषस्य (विश्वम्) सर्वं जगत् (नः) अस्मभ्यम् (भेषजम्) भयनिवारकम् (सर्वम्) समस्तम् (नः) (अस्तु) (भेषजम्) रोगनाशकम् ॥