Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 58 / 1

य॒शसं॒ मेन्द्रो॑ म॒घवा॑न्कृणोतु य॒शसं॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे। य॒शसं॑ मा दे॒वः स॑वि॒ता कृ॑णोतु प्रि॒यो दा॒तुर्दक्षि॑णाया इ॒ह स्या॑म् ॥ 1॥

Veda : Atharvaveda | Kand : 6 | Sukta : 58 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : अथर्वा | देवता : इन्द्रः, द्यावापृथिवी, सविता | छन्द : जगती | स्वर :

विषय : यश पाने के लिये उपदेश।

पदपाठ : य॒शस॑म् । मा॒ । इन्द्र॑: । म॒घऽवा॑न् । कृ॒णो॒तु॒ । य॒शस॑म् । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । इ॒मे इति॑ । य॒शस॑म् । मा॒ । दे॒व:। स॒वि॒ता । कृ॒णो॒तु॒ । प्रि॒य: । दा॒तु: । दक्षि॑णाया: । इ॒ह । स्या॒म् ॥५८.१॥

पदार्थ : (मघवान्) बड़ा धनी (इन्द्रः) परमेश्वर (मा) मुझे (यशसम्) यशस्वी (कृणोतु) करे, (इमे) यह (उभे) दोनों (द्यावापृथिवी) सूर्य और पृथिवी लोक (यशसम्) कीर्तिमान् [करें]। (देवः) व्यवहारकुशल (सविता) विद्याप्रेरक आचार्य (मा) मुझे (यशसम्) यशस्वी (कृणोतु) करे (दक्षिणायाः) दक्षिणा वा प्रतिष्ठा के (दातुः) देनेवाले राजा का (प्रियः) प्रिय (इह) यहाँ पर (स्याम्) मैं रहूँ ॥१॥"

भावार्थ :

टिप्पणी :१−(यशसम्) अर्शआदित्वाद्−अच्। यशस्विनम्। कीर्तियुक्तम् (मा) माम् (इन्द्रः) परमेश्वरः (मघवान्) मघं धनम्−निघ० २।१०। मतुप्। महाधनी (कृणोतु) करोतु (यशसम्) (द्यावापृथिवी) सूर्यभूलोकौ (उभे) (इमे) दृश्यमाने (यशसम्) (मा) (देवः) व्यवहारकुशलः (सविता) विद्याप्रेरक आचार्यः (प्रियः) प्रीतिकरः (दातुः) दानशीलस्य राज्ञः (दक्षिणायाः) दानस्य। प्रतिष्ठायाः (इह) अत्र लोके (स्याम्) भवेयम् ॥