Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 58 / 2

यथेन्द्रो॒ द्यावा॑पृथि॒व्योर्यश॑स्वा॒न्यथाप॒ ओष॑धीषु॒ यश॑स्वतीः। ए॒वा विश्वे॑षु दे॒वेषु॑ व॒यं सर्वे॑षु य॒शसः॑ स्याम ॥ 2॥

Veda : Atharvaveda | Kand : 6 | Sukta : 58 | Paryay : | Mantra No : 2

In Hindi:

ऋषि : अथर्वा | देवता : इन्द्रः, द्यावापृथिवी, सविता | छन्द : प्रस्तारपङ्क्तिः | स्वर :

विषय : यश पाने के लिये उपदेश।

पदपाठ : यथा॑ । इन्द्र॑: । द्यावा॑पृथि॒व्यो: । यश॑स्वान् । यथा॑ । आप॑: । ओष॑धीषु । यश॑स्वती: । ए॒व । विश्वे॑षु । दे॒वेषु॑ । व॒यम् । सर्वे॑षु । य॒शस॑: । या॒म॒ ॥५८.२॥

पदार्थ : (यथा) जैसे (इन्द्रः) परमेश्वर (द्यावापृथिव्योः) सूर्य और पृथिवी लोक में (यशस्वान्) कीर्तिमान् है, और (यथा) जैसे (आपः) जल (ओषधीषु) अन्न आदि ओषधियों में (यशस्वतीः) यशवाले हैं। (एव) वैसे ही (विश्वेषु) सब (देवेषु) व्यवहारकुशल महात्माओं में और (सर्वेषु) सब गुणों में (वयम्) हम लोग (यशसः) यश चाहनेवाले (स्याम) होवें ॥२॥"

भावार्थ :

टिप्पणी :२−(यथा) येन प्रकारेण (इन्द्रः) परमेश्वरः (द्यावापृथिव्योः) सूर्यभूलोकयोर्मध्ये (यशस्वान्) कीर्तिमान् (यथा) (आपः) जलानि (ओषधीषु) व्रीहियवादिपदार्थेषु (यशस्वतीः) कीर्तिमत्यः (एव) एवम् (विश्वेषु) समस्तेषु (देवेषु) व्यवहारकुशलेषु महात्मसु (वयम्) विज्ञानिनः पुरुषाः (सर्वेषु) व्याप्तेषु गुणेषु (यशसः) अ० ६।३९।२। आत्मनो यश इच्छन्तः (स्याम) भवेम ॥