Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 77 / 1

अस्था॒द् द्यौरस्था॑त्पृथि॒व्यस्था॒द्विश्व॑मि॒दं जग॑त्। आ॒स्थाने॒ पर्व॑ता अस्थु॒ स्थाम्न्यश्वाँ॑ अतिष्ठिपम् ॥ 1॥

Veda : Atharvaveda | Kand : 6 | Sukta : 77 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : कबन्ध | देवता : जातवेदा अग्निः | छन्द : अनुष्टुप् | स्वर :

विषय : संपदा पाने का उपदेश।

पदपाठ : अस्था॑त् । द्यौ: । अस्था॑त् । पृ॒थि॒वी । अस्था॑त् । विश्व॑म् । इ॒दम् । जग॑त् । आ॒ऽस्थाने॑ । पर्व॑ता: । अ॒स्थु॒: । स्थाम्नि॑ । अश्वा॑न् । अ॒ति॒ष्ठि॒प॒म् ॥७७.१॥

पदार्थ : (द्यौः) सूर्य लोक (अस्थात्) ठहरा हुआ है, (पृथिवी) पृथिवी (अस्थात्) ठहरी हुई है, (इदम्) यह (विश्वम्) सब (जगत्) जगत् (अस्थात्) ठहरा हुआ है। (पर्वताः) सब पर्वत (आस्थाने) विश्रामस्थान में (अस्थु) ठहरे हुए हैं। (अश्वान्) घोड़ों को (स्थाम्नि) स्थान पर (अतिष्ठिपम्) मैंने खड़ा कर दिया है ॥१॥"

भावार्थ :

टिप्पणी :१−(अस्थात्) तिष्ठति स्म (द्यौः) सूर्यलोकः (अस्थात्) (पृथिवी) (अस्थात्) (विश्वम्) सर्वम् (इदम्) दृश्यमानम् (जगत्) (आस्थाने) विश्रामस्थाने (पर्वताः) शैलाः (अस्थुः) स्थिता अभवन् (स्थाम्नि) आतो मनिन्क्वनिब्०। पा० ३।२।७४। इति ष्ठा−मनिन्। स्थितिस्थाने (अश्वान्) तुरङ्गान् (अतिष्ठिपम्) तिष्ठतेर्ण्यन्तात् लुङि चङि रूपम्। स्थापितवानस्मि ॥