Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 92 / 3

त॒नूष्टे॑ वाजिन्त॒न्वं१॒॑ नय॑न्ती वा॒मम॒स्मभ्यं॒ धाव॑तु॒ शर्म॒ तुभ्य॑म्। अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वो दि॒वी᳡व॒ ज्योतिः॒ स्वमा मि॑मीयात् ॥3॥

Veda : Atharvaveda | Kand : 6 | Sukta : 92 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : अथर्वा | देवता : वाजी | छन्द : त्रिष्टुप् | स्वर :

विषय : राजा के धर्म का उपदेश।

पदपाठ : त॒नू॒: । ते॒ । वा॒जि॒न् । त॒न्व᳡म् । नय॑न्ती । वा॒मम् । अ॒स्मभ्य॑म् । धाव॑तु। शर्म॑ । तुभ्य॑म् । अह्रु॑त: । म॒ह: । ध॒रुणा॑य । दे॒व: । दि॒विऽइ॑व । ज्योति॑: । स्वम् । आ । मि॒मी॒या॒त्॥९२.३॥

पदार्थ : (वाजिन्) हे बलवान् राजन् ! (ते) तेरा (तनूः) शरीर (तन्वम्) हमारे शरीर को (नयन्ती) ले चलता हुआ (अस्मभ्यम्) हमारे लिये और (तुभ्यम्) तेरे लिये (वामम्) सेवनीय धन और (शर्म) सुख (धावतु) शीघ्र पहुँचावे। (अह्रुतः) कुटिलता रहित (देवः) विजय चाहनेवाले आप (धरुणाय) हमारे धारण के लिये (महः) बड़ी (त्वम्) अपनी (ज्योतिः) ज्योति (आ) भले प्रकार (मिमीयात्) निर्माण करें (दिवि इव) जैसे सूर्यमण्डल में [ज्योति] ॥३॥"

भावार्थ :

टिप्पणी :३−(तनूः) शरीरयष्टिः (ते) तव (वाजिन्) हे बलवन् राजन् (तन्वम्) अस्माकं शरीरम् (नयन्ती) प्रेरयन्ती (वामम्) अ० ४।२२।४। वननीयं धनम् (अस्मभ्यम्) प्रजागणेभ्यः (धावतु) धाव जवे, अन्तर्गतण्यर्थः। शीघ्रं प्रापयतु (शर्म) सुखम् (तुभ्यम्) राज्ञे (अह्रुतम्) ह्रु ह्वरेश्छन्दसि पा० ७।२।३१। इति ह्वृ कौटिल्ये−क्त ह्रु आदेशः। अकुटिलः। छलरहितः (महः) अह−असुन्। महत् (धरुणाय) अ० ३।१२।३। अस्माकं धारणाय (देवः) विजिगीषुर्भवान् राजा (दिवि) सूर्ये वर्तमानम् (इव) यथा (ज्योतिः) तेजः (स्वम्) स्वकीयम् (मिमीयात्) माङ् माने शब्दे च, विधिलिङि छान्दसं परस्मैपदम्। मिमीत। निर्माणयेत् ॥