Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 93 / 1

य॒मो मृ॒त्युर॑घमा॒रो नि॑रृ॒थो ब॒भ्रुः श॒र्वोऽस्ता॒ नील॑शिखण्डः। दे॑वज॒नाः सेन॑योत्तस्थि॒वांस॒स्ते अ॒स्माकं॒ परि॑ वृञ्जन्तु वी॒रान् ॥ 1॥

Veda : Atharvaveda | Kand : 6 | Sukta : 93 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : शन्ताति | देवता : यमः, मृत्युः, शर्वः | छन्द : त्रिष्टुप् | स्वर :

विषय : सत्सङ्ग के लाभ का उपदेश।

पदपाठ : य॒म: । मृ॒त्यु: । अ॒घ॒ऽमा॒र: । नि॒:ऽऋ॒थ: । ब॒भ्रु: । श॒र्व: । अस्ता॑ । नील॑ऽशिखण्ड: । दे॒व॒ऽज॒ना: । सेन॑या । उ॒त्त॒स्थि॒ऽवांस॑: । ते । अ॒स्माक॑म् । परि॑। वृ॒ञ्ज॒न्तु॒ । वी॒रान्॥९३.१॥

पदार्थ : (यमः) न्यायकारी परमेश्वर [पापियों का] (अघमारः) पाप के कारण मारनेवाला, (मृत्युः) प्राण छोड़ानेवाला, (निर्ऋथः) निरन्तर पीड़ा देनेवाला और [धर्मात्माओं का] (बभ्रुः) पालन करनेवाला, (शर्वः) कष्ट काटनेवाला (अस्ता) ग्रहण करनेवाला और (नीलशिखण्डः) निधियों वा निवासों का देनेवाला है। (सेनया) अपनी सेना के साथ (उत्तस्थिवांसः) उठे हुए (ते) वे (देवजनाः) विजय चाहनेवाले पुरुष (अस्माकम्) हमारे (वीरान्) वीर लोगों को [विघ्न से] (परि) सर्वथा (वृञ्जन्तु) छुड़ावें ॥१॥"

भावार्थ :

टिप्पणी :१−(यमः) नियन्ता परमेश्वरः (मृत्युः) पापिनां प्राणत्याजयिता (अघमारः) पुसिं संज्ञायां घः प्रायेण। पा० ३।३।११८। इति मृङ् प्राणत्यागे−घ। पापेन मारयिता (निर्ऋथः) अवे भृञः। उ० २।३। इति निर्+ऋ हिसायाम्−क्थन्। निरन्तरपीडकः (बभ्रुः) कुर्भ्रश्च। उ० १।२२। इति भृञ् भरणे−कु, द्विर्भावश्च। भर्त्ता। पालयिता (शर्वः) अ० ४।२८।१। कष्टनाशकः (अस्ता) अस ग्रहणे−तृन्। ग्रहीता (नीलशिखण्डः) अ० २।२७।६। नीलानां निधीनां वा नीडानां निवासानां प्रापकः (देवजनाः) विजिगीषवः पुरुषाः (सेनया) स्वस्वजनसंघेन (उत्तस्थिवांसः) उत्पूर्वात् तिष्ठतेर्लिटः−क्वसुः। उत्कर्षेण स्थिताः (ते) प्रसिद्धाः (अस्माकम्) धार्मिकाणाम् (परि) सर्वतः (वृञ्जन्तु) वृजी वर्जने। वर्जयन्तु विघ्नात् (वीरान्) पराक्रमिणः पुरुषान् ॥