Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 125 / 1

वन॑स्पते वी॒ड्व᳡ङ्गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीरः॑। गोभिः॒ संन॑द्धो असि वी॒डय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ॥ 1॥

Veda : Atharvaveda | Kand : 6 | Sukta : 125 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : अथर्वा | देवता : वनस्पतिः | छन्द : त्रिष्टुप् | स्वर :

विषय : सेना और सेनापति के कर्तव्य का उपदेश।

पदपाठ : वन॑स्पते । वी॒डुऽअ॑ङ्ग: । हि । भू॒या: । अ॒स्मत्ऽस॑खा । प्र॒ऽतर॑ण: । सु॒ऽवीर॑: । गोभि॑: । सम्ऽन॑ध्द: । अ॒सि॒ । वी॒डय॑स्व । आ॒ऽस्था॒ता । ते॒ । ज॒य॒तु॒ । जेत्वा॑नि ॥१२५.१॥

पदार्थ : (वनस्पते) हे किरणों के पालन करनेवाले सूर्य के समान राजन् ! वीड्वङ्गः) बलिष्ठ अङ्गोंवाला तू (हि) ही (प्रतरणः) बढ़ानेवाला (सुवीरः) अच्छे-अच्छे वीरों से युक्त (अस्मत्सखा) हमारा मित्र (भूयाः) हो। तू (गोभिः) बाणों और वज्रों से (संनद्धः) अच्छे प्रकार सजा हुआ (असि) है, [हमें] (वीडयस्व) दृढ बना, (ते) तेरा (आस्थाता) श्रद्धावान् सेनापति (जेत्वानि) जीतने योग्य शत्रुओं की सेनाओं को (जयन्तु) जीते ॥१॥"

भावार्थ :

टिप्पणी :१−(वनस्पते) अ० १।३५।३। वनानां किरणानां पालकः सूर्य इव राजन् (वीड्वङ्गः) वीडु बलम् निघ० २।९। बलिष्ठाङ्गः (हि) (भूयाः) भवेः (अस्मत्सखा) अस्माकं मित्रम् (प्रतरणः) प्रतारकः। प्रवर्धकः (सुवीरः) कल्याणवीरः−निरु० ९।१२। सुष्ठु वीरयुक्तः (गोभिः) इषुभिः। वज्रैः। स्वर्गेषुपशु- वज्रदिङ्नेत्रघृणिभूजले−इत्यमरः, २३।२५। (सन्नद्धः) सम्यक् सज्जः (असि) (वीडयस्व) वीडयतिः संस्तम्भकर्मा−निरु० ५।१६। यद्वा, वीर विक्रान्तौ, रस्य डः। दृढान् कुरु (आस्थाता) आस्थया श्रद्धया युक्तः (ते) तव (जयतु) (जेत्वानि) कृत्यार्थे तवैकेन्०। पा० ३।४।१४। जि जये−त्वन्। जेतव्यानि शत्रुसैन्यानि ॥