Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 138 / 1

त्वं वी॒रुधां॒ श्रेष्ठ॑तमाभिश्रु॒तास्यो॑षधे। इ॒मं मे॑ अ॒द्य पुरु॑षं क्ली॒बमो॑प॒शिनं॑ कृधि ॥ 1॥

Veda : Atharvaveda | Kand : 6 | Sukta : 138 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : अथर्वा | देवता : नितत्नीवनस्पतिः | छन्द : अनुष्टुप् | स्वर :

विषय : निर्बलता हटाने का उपदेश।

पदपाठ : त्वम् । वी॒रुधा॑म् । श्रेष्ठ॑ऽतमा । अ॒भि॒ऽश्रु॒ता । अ॒सि॒ । ओ॒ष॒धे॒ । इ॒मम् । मे॒ । अ॒द्य । पुरु॑षम् । क्ली॒बम् । ओ॒प॒शिन॑म् । कृ॒धि॒ ॥१३८.१॥

पदार्थ : (ओषधे) हे ओषधि ! (त्वम्) तू (वीरुधाम्) सब ओषधियों में (श्रेष्ठतमा) अति श्रेष्ठ और (अभिश्रुता) बड़ी विख्यात (असि) है। (मे) मेरे लिये (अद्य) अब (इमम्) इस (क्लीबम्) बलहीन (पुरुषम्) पुरुष को (ओपशिनम्) सब प्रकार उपयोगी (कृधि) बना ॥१॥"

भावार्थ :

टिप्पणी :१−(त्वम्) (वीरुधाम्) लतानां मध्ये (श्रेष्ठतमा) अतिशयेन प्रशस्या (अभिश्रुता) सर्वतः प्रख्याता (असि) (ओषधे) (इमम्) (मे) मदर्थम् (अद्य) इदानीम् (पुरुषम्) (क्लीबम्) क्लीबृ अधार्ष्ये−अच्। अधृष्टम्। निवीर्य्यम् (ओपशिनम्) आङ्+उप+शीङ् शयने−ड, इनि। ओपशः=उपशयः=उपयोगः। समन्तादुपयोगिनम्। (कृधि) कुरु ॥