Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 6 / 140 / 3

उप॑हूतौ स॒युजौ॑ स्यो॒नौ दन्तौ॑ सुम॒ङ्गलौ॑। अ॒न्यत्र॑ वां घो॒रं त॒न्वः१॒॑ परै॑तु दन्तौ॒ मा हिं॑सिष्टं पि॒तरं॑ मा॒तरं॑ च ॥ 3॥

Veda : Atharvaveda | Kand : 6 | Sukta : 140 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : अथर्वा | देवता : ब्रह्मणस्पतिः | छन्द : आस्तारपङ्क्तिः | स्वर :

विषय : बालक के अन्नप्राशन का उपदेश।

पदपाठ : उप॑ऽहूतौ । स॒ऽयुजौ॑ । स्यो॒नौ । दन्तौ॑ । सु॒ऽम॒ङ्गलौ॑ । अ॒न्यत्र॑ । वा॒म् । घो॒रम् । त॒न्व᳡: । परा॑ । ए॒तु॒ । द॒न्तौ॒ । मा । हिं॒सि॒ष्ट॒म् । पि॒तर॑म् । मा॒तर॑म् । च॒ ॥१४०.३॥

पदार्थ : (उपहूतौ) आपस में स्पर्धावाले, (सयुजौ) एक दूसरे से मिले हुए (दन्तौ) दोनों ओर के दाँत (स्योनौ) सुख देनेवाले और (सुमङ्गलौ) बड़े मङ्गलवाले होवें। (दन्तौ) हे दोनों ओर के दाँतो ! (वाम्) तुम्हारा (घोरम्) दुःखदायी कर्म [बालक के] (तन्वः) शरीर से (अन्यत्र) अलग (परा एतु) चला जावे (पितरम्) इसके पिता (च) और (मातरम्) माता को (मा हिंसिष्टम्) मत काटो ॥३॥"

भावार्थ :

टिप्पणी :३−(उपहूतौ) ह्वेञ् स्पर्धायां शब्दे च−क्त। परस्परस्पर्धायुक्तौ (सयुजौ) समानं युञ्जानौ (स्योनौ) सुखकरौ (दन्तौ) उभयतो दन्तगणौ (सुमङ्गलौ) सुमङ्गलकरौ (अन्यत्र) पृथक् स्थाने (वाम्) युवयोः (घोरम्) क्रूरं कर्म (तन्वः) शिशुशरीरात् (परा) (दूरे) (एतु) गच्छतु। अन्यत्पूर्ववत्−म० २ ॥