Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 7 / 14 / 1

अ॒भि त्यं दे॒वं स॑वि॒तार॑मो॒ण्योः᳡ क॒विक्र॑तुम्। अर्चा॑मि स॒त्यस॑वं रत्न॒धाम॒भि प्रि॒यं म॒तिम् ॥ 1॥

Veda : Atharvaveda | Kand : 7 | Sukta : 14 | Paryay : | Mantra No : 1

In Hindi:

ऋषि : अथर्वा | देवता : सविता | छन्द : अनुष्टुप् | स्वर :

विषय : ईश्वर के गुणों का उपदेश।

पदपाठ : अ॒भि । त्यम् । दे॒वम् । स॒वि॒तार॑म् । ओ॒ण्यो᳡: । क॒विऽक्र॑तुम् । अर्चा॑मि । स॒त्यऽस॑वम् । र॒त्न॒ऽधाम् । अ॒भि । प्रि॒यम् । म॒तिम् ॥१५.१॥

पदार्थ : (त्वम्) उस (देवम्) सुखदाता (ओण्योः) सूर्य और पृथिवी के (सवितारम्) उत्पन्न करनेवाले, (कविक्रतुम्) सर्वज्ञ बुद्धि वा कर्मवाले, (सत्यसवम्) सच्चे ऐश्वर्यवाले, (रत्नधाम्) रमणीय विज्ञानों वा हीरा आदिकों वा लोकों के धारण करनेवाले, (प्रियम्) प्रीति करनेवाले, (मतिम्) मनन करनेवाले, परमेश्वर को (अभि अभि) बहुत भले प्रकार (अर्चामि) मैं पूजता हूँ ॥१॥"

भावार्थ :

टिप्पणी :१−(अभि अभि) सर्वतः सर्वतः (त्यम्) प्रसिद्धम् (देवम्) सुखदातारम् (सवितारम्) उत्पादकम् (ओण्योः) सर्वधातुभ्य इन्। उ० ४।११८। ओणृ अपनयने-इन्। कृदिकारादक्तिनः। वा० पा० ४।१।४५। इति ङीप्। द्यावापृथिव्योः-निघ० ३।३०। (कविक्रतुम्) कविः सर्वज्ञा क्रतुः प्रज्ञा कर्म वा यस्य तम्। कविः क्रान्तदर्शनो भवति कवतेर्वा-निरु० १२।१३। (अर्चामि) पूजयामि (सत्यसवम्) सत्यैश्वर्ययुक्तम् (रत्नधाम्) रत्नानि रमणीयानि विज्ञानानि हीरकादीनि भवनानि वा दधातीति तम् (प्रियम्) प्रीतिकरम्। (मतिम्) मनु अवबोधने-क्तिच्। मन्तारम्। मतयो मेधाविनः-निघ० ३।१५ ॥