Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 7 / 20 / 3

अनु॑ मन्यतामनु॒मन्य॑मानः प्र॒जाव॑न्तं र॒यिमक्षी॑यमाणम्। तस्य॑ व॒यं हेड॑सि॒ मापि॑ भूम सुमृडी॒के अ॑स्य सुम॒तौ स्या॑म ॥ 3॥

Veda : Atharvaveda | Kand : 7 | Sukta : 20 | Paryay : | Mantra No : 3

In Hindi:

ऋषि : ब्रह्मा | देवता : अनुमतिः | छन्द : त्रिष्टुप् | स्वर :

विषय : मनुष्यों के कर्त्तव्य का उपदेश।

पदपाठ : अनु॑ । म॒न्य॒ता॒म् । अ॒नु॒ऽमन्य॑मान: । प्र॒जाऽव॑न्तम् । र॒यिम् । अक्षी॑यमाणम् । तस्य॑ । व॒यम् । हेड॑सि । मा । अपि॑ । भू॒म॒ । सु॒ऽमृ॒डी॒के । अ॒स्य॒ । सु॒ऽम॒तौ । स्या॒म॒ ॥२१.३॥

पदार्थ : (अनुमन्यमानः) निरन्तर जाननेवाला परमेश्वर (प्रजावन्तम्) उत्तम सन्तान, भृत्य आदि वाला, (अक्षीयमाणम्) न घटनेवाला (रयिम्) धन (अनु) अनुग्रह करके (मन्यताम्) जतावे। (वयम्) हम (तस्य) उसके (हेडसि) क्रोध में (अपि) कभी (मा भूम) न होवें, (अस्य) इसके (सुमृडीके) उत्तम सुख में और (सुमतौ) सुमति [कल्याणी बुद्धि] में (स्याम) बने रहें ॥३॥"

भावार्थ :

टिप्पणी :३−(अनु) सर्वदा (मन्यताम्) ज्ञापयतु (अनुमन्यमानः) निरन्तरं मन्ता ज्ञाता परमेश्वरः (प्रजावन्तम्) प्रशस्तसन्तानभृत्यादियुक्तम् (रयिम्) धनम् (अक्षीयमाणम्) क्षि क्षये-शानच्। अक्षीणम् (तस्य) ईश्वरस्य (वयम्) (हेडसि) क्रोधे-निघ० २।१३। (अपि) कदापि (मा भूम) न स्याम (सुमृडीके) मृडः कीकच्कङ्कणौ। उ० ४।२४। इति मृड सुखने-कीकच्। शोभने सुखे (अस्य) (सुमतौ) कल्याण्यां बुद्धौ (स्याम) भवेम ॥