Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 7 / 57 / 2

स॒प्त क्ष॑रन्ति॒ शिश॑वे म॒रुत्व॑ते पि॒त्रे पु॒त्रासो॒ अप्य॑वीवृतन्नृ॒तानि॑। उ॒भे इद॑स्यो॒भे अ॑स्य राजत उ॒भे य॑तेते उ॒भे अ॑स्य पुष्यतः ॥ 2॥

Veda : Atharvaveda | Kand : 7 | Sukta : 57 | Paryay : | Mantra No : 2

In Hindi:

ऋषि : वामदेवः | देवता : सरस्वती | छन्द : जगती | स्वर :

विषय : गृहस्थ धर्म का उपदेश।

पदपाठ : स॒प्त । क्ष॒र॒न्ति॒ । शिश॑वे । म॒रुत्व॑ते । पि॒त्रे । पु॒त्रास॑: । अपि॑ । अ॒वी॒वृ॒त॒न् । ऋ॒तानि॑ । उ॒भे इति॑ । इत् । अ॒स्य॒ । उ॒भे इति॑ । अ॒स्य॒ । रा॒ज॒त॒: । उ॒भे इति॑ । य॒ते॒ते॒ इति॑ । उ॒भे इति॑ । अ॒स्य॒ । पु॒ष्य॒त॒: ॥५९.२॥

पदार्थ : (सप्त) सात [इन्द्रियाँ अर्थात् दो कान, दो नथुने, दो आँख, एक मुख] (मरुत्वते) सुवर्णवाले (शिशवे) दुःखनाशक बालक [वा प्रशंसनीय वा उदार विद्वान्] के लिये [सुख से] (क्षरन्ति) बरसती हैं, (अपि) और (पुत्रासाः) पुत्रों [पुत्रसमान हितकारी पुरुषों] ने (पित्रे) उस पिता [पिता तुल्य माननीय] के लिये (ऋतानि) सत्य धर्मों को (अवीवृतन्) प्रवृत्त किया है। (उभे) दोनों [वर्तमान और भविष्यत् जन्म वा अवस्था] (इत्) ही (अस्य) इस [विद्वान्] के होते हैं, (अस्य) इसके (उभे) दोनों (राजतः) ऐश्वर्यवान् होते हैं, (उभे) दोनों (यतेते) प्रयत्नशाली होते हैं, (उभे) दोनों (अस्य) इसका (पुष्यतः) पोषण करते हैं ॥२॥"

भावार्थ :

टिप्पणी :२−(सप्त) सप्त ऋषयः-अ० ४।११।९। कः सप्त खानि विततर्द शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम्। अ० १०।२।६। शीर्षण्यानि सप्तच्छिद्राणि (क्षरन्ति) सुखं वर्षन्ति (शिशवे) शः कित् सन्वच। उ० १।२०। शो तनूकरणे-उ। शिशुः शंसनीयो भवति शिशीतेर्वा स्याद् दानकर्मणः-निरु० १०।३९। दुःखस्य अल्पीकर्त्रे नाशयित्रे बालकाय दात्रे विदुषे वा (मरुत्वते) मरुत्=हिरण्यम्-निघ० १।२। सुवर्णवते (पित्रे) पितृतुल्यमाननीयाय विदुषे (पुत्रासः) पुत्रवदुपकारिणः पुरुषाः (अपि) च (अवीवृतन्) वर्ततेर्ण्यन्ताल्लुङि चङि रूपम्। प्रवर्तितवन्तः (ऋतानि) सत्यधर्माणि (उभे) उभ पूरणे-क। उभौ समुब्धौ भवतः-निरु० ४।४। उभेनिपासि जन्मनी-यजु० ८।३। द्वे वर्तमानभविष्यती जन्मनी अवस्थे वा (इत्) एव (अस्य) शिशोर्विदुषः पुरुषस्य (उभे) (अस्य) (राजतः) राजति=ईष्टे-निघ० २।२१। ऐश्वर्ययुक्ते भवतः (यतेते) यती प्रयत्ने। प्रयत्नं कुरुतः (पुष्यतः) पोषणं कुरुतः ॥