Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 7 / 77 / 2

यो नो॒ मर्तो॑ मरुतो दुर्हृणा॒युस्ति॒रश्चि॒त्तानि॑ वसवो॒ जिघां॑सति। द्रु॒हः पाशा॒न्प्रति॑ मुञ्चतां॒ स तपि॑ष्ठेन॒ तप॑सा हन्तना॒ तम् ॥ 2॥

Veda : Atharvaveda | Kand : 7 | Sukta : 77 | Paryay : | Mantra No : 2

In Hindi:

ऋषि : अङ्गिराः | देवता : मरुद्गणः | छन्द : त्रिष्टुप् | स्वर :

विषय : वीरों के कर्त्तव्य का उपदेश।

पदपाठ : य: । न॒: । मर्त॑: । म॒रु॒त॒: । दु॒:ऽहृ॒णा॒यु: । ति॒र: । चि॒त्तानि॑ । व॒स॒व॒: । जिघां॑सति । द्रु॒ह: । पाशा॑न् । प्रत‍ि॑ । मु॒ञ्च॒ता॒म् । स: । तपि॑ष्ठेन । तप॑सा । ह॒न्त॒न॒ । तम् ॥८२.२॥

पदार्थ : (वसवः) हे वसानेवाले (मरुतः) शूरो ! (यः) जो (दुर्हृणायुः) अत्यन्त क्रोध को प्राप्त हुआ (मर्तः) मनुष्य (चित्तानि) हमारे चित्तों के (तिरः) आड़े होकर (नः) हमें (जिघांसति) मारना चाहता है। (सः) वह [हमारे लिये] (द्रुहः) द्रोह [अनिष्ट] के (पाशान्) फन्दों को (प्रति) प्रत्यक्ष (मुञ्चताम्) छोड़ देवे, (तम्) उसे (तपिष्ठेन) अत्यन्त तपानेवाले (तपसा) ऐश्वर्य वा तुपक आदि हथियार से (हन्तन) मार डालो ॥२॥"

भावार्थ :

टिप्पणी :२−(यः) (नः) अस्मान् (मर्तः) मनुष्यः (मरुतः) हे शूरगणाः (दुर्हृणायुः) हृणीयते क्रुध्यतिकर्मा-निघ० २।१२। हृणीङ् रोषणे लज्जायां च-क। छन्दसीणः। उ० १।२। हृण+इण् गतौ-ञुण्। दुर्हृणं दुष्टं क्रोधं गतः। प्राप्तक्रोधः (तिरः) तिरस्कृत्य। उल्लङ्घ्य (चित्तानि) अन्तःकरणानि (वसवः) हे वासयितारः (जिघांसति) हन्तुमिच्छति (द्रुहः) द्रोहस्य। अनिष्टस्य (पाशान्) बन्धान् (प्रति) प्रत्यक्षम् (मुञ्चताम्) त्यजतु (सः) शत्रुः (तपिष्ठेन) तापयितृतमेन (तपसा) ऐश्वर्येण तापकेनायुधेन वा (हन्तन) तस्य तनप्। हत ॥