Atharvaveda / 9 / 4 / 16
ते कुष्ठि॑काः स॒रमा॑यै कु॒र्मेभ्यो॑ अदधुः श॒फान्। ऊब॑ध्यमस्य की॒टेभ्यः॑ श्वव॒र्तेभ्यो॑ अधारयन् ॥ 16॥
Veda : Atharvaveda | Kand : 9 | Sukta : 4 | Paryay : | Mantra No : 16
In English:
Seer : brahmaa | Devta : RRiShabhaH | Metre : anuShTup | Tone :
Subject : English Translation will be uploaded as and when ready.
Verse : te kuShThikaaH saramaayai kurmebhyo adadhuH shaphaan. uubadhyamasya kiiTebhyaH shvavartebhyo adhaarayan . 16.
Component Words : te . kuShThikaaH . saramaayai . kuurmebhyaH . adadhuH . shaphaan . uubadhyam . asya . kiiTebhyaH . shve.avartebhyaH . adhaarayan .4.16.
In Hindi:
ऋषि : ब्रह्मा | देवता : ऋषभः | छन्द : अनुष्टुप् | स्वर :
विषय : आत्मा की उन्नति का उपदेश।
पदपाठ : ते । कुष्ठि॑का: । स॒रमा॑यै । कू॒र्मेभ्य॑: । अ॒द॒धु॒: । श॒फान् । ऊब॑ध्यम् । अ॒स्य॒ । की॒टेभ्य॑: । श्वे॒ऽव॒र्तेभ्य॑: । अ॒धा॒र॒यन् ॥४.१६॥
पदार्थ : (ते) उन्होंने [ऋषियों ने] (कुष्ठिकाः) [पदार्थों को] बाहिर निकालने [चुराने] की प्रकृतियाँ (सरमायै) सरक-सरक कर चलनेवाली कुतिया को, और (शफान्) हिंसकस्वभाव (कूर्मेभ्यः) हिंसा करनेवाले वा जल में धँस जानेवाले कछुओं को (अदधुः) दीये। (अस्य) उसका (ऊबध्यम्) कुपचा अन्न (श्ववर्तेभ्यः) कुत्तों [वा मृतक देहों में] रहनेवाले (कीटेभ्यः) कीड़ों को (अधारयन्) उन्होंने रक्खा ॥१६॥"
भावार्थ : टिप्पणी :१६−(ते) ऋषयः (कुष्ठिकाः) कुष्ठ-कन् स्वार्थे, टाप्। प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः। पा० ७।३।४४। अत इत्त्वम्। निष्कर्षणस्य बहिष्करणस्य प्रकृतीः (सरमायै) कलिकर्द्योरमः। उ० ४।८४। सृ गतौ-अम प्रत्ययः, टाप्। सरमा पदनाम-निघ० ५।५। सरमा सरणात्-निरु० ११।२४। श्वा काक इति कुत्सायाम्-निरु० ३।१८। सरणशीलायै कुक्कुर्यै (कूर्मेभ्यः) इषियुधीन्धि०। उ० १।१४५। डुकृञ् करणे कृञ् हिंसायां वा-मक्, ऊत्त्वं च। यद्वा। अर्त्तेरूच्च। उ० ४४।४। ऋ गतौ-मि, ऊत्। के देहे जले वा ऊर्मिर्वेगो यस्य स कूर्मः। शरीरस्थो वायुः। कच्छपः। सृष्टिकर्त्ता “परमेश्वरो यथा, परमेश्वरेणेदं सकलं जगत् क्रियते तस्मात् तस्य कूर्म इति संज्ञा”-दयानन्दकृता ऋग्वेदादिभाष्यभूमिका, पृष्ठे २९१। हिंसकेभ्यः कच्छपेभ्यः (अदधुः) दत्तवन्तः (शफान्) शम शान्तौ हिसायां च-अच्, मस्य फः पृषोदरादित्वात्। शम्नातिर्वधकर्मा-निघ० २।१९। हिंसकस्वभावान् (ऊबध्यम्) दुर्+वध संयमने=बन्धने-यत्, पृषोदरादित्वाद्दकारलोपे ऊत्त्वम्। दुर्बध्यं दुर्बन्धनीयं दुःखेन पचनीयम्। अजीर्णमन्नम् (अस्य) ऋषभस्य (कीटेभ्यः) कीट बन्धे वर्णे च-अच्। कृमिजातिभ्यः (श्ववर्तेभ्यः) श्वन् शव वा+वृतु वर्तने-घञ्। श्वसु कुक्कुरेषु शवेषु मृतदेहेषु वा वर्त्तमानेभ्यः (अधारयन्) धारितवन्तः ॥