Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 4 / 15

क्रो॒ड आ॑सीज्जामिशं॒सस्य॒ सोम॑स्य॒ क॒लशो॑ धृ॒तः। दे॒वाः सं॒गत्य॒ यत्सर्व॑ ऋष॒भं व्यक॑ल्पयन् ॥ 15॥

Veda : Atharvaveda | Kand : 9 | Sukta : 4 | Paryay : | Mantra No : 15

In Hindi:

ऋषि : ब्रह्मा | देवता : ऋषभः | छन्द : अनुष्टुप् | स्वर :

विषय : आत्मा की उन्नति का उपदेश।

पदपाठ : क्रो॒ड: । आ॒सी॒त् । जा॒मि॒ऽशं॒सस्य॑ । सोम॑स्य । क॒लश॑: । धृ॒त: । दे॒वा: । स॒म्ऽगत्य॑ । यत् । सर्वे॑ । ऋ॒ष॒भम् । वि॒ऽअक॑ल्पयन् ॥४.१५॥

पदार्थ : [परमेश्वर की] (क्रोडः) गोद (जामिशंसस्य) ज्ञानियों में प्रशंसावाले पुरुष की (आसीत्) थी, [उसका] (कलशः) कलस [जलपात्र] (सोमस्य) अमृत का (धृतः) धरा हुआ [था]। (यत्) जब (सर्वे) सब (देवाः) विद्वानों ने (संगत्य) मिलकर (ऋषभम्) सर्वदर्शक परमेश्वर को (व्यकल्पयन्) विविध प्रकार कल्पना से माना ॥१५॥"

भावार्थ :

टिप्पणी :१५−(क्रोडः) क्रुड बाल्ये-घञ्। अङ्कः। वक्षः (आसीत्) (जामिशंसस्य) नियो मिः। उ० ४।४३। या गतौ यद्वा ज्ञा ज्ञाने−मि, आदेर्जत्वम्। शंसु हिंसागत्योः-अ प्रत्ययः, टाप्। ज्ञातृषु विद्वत्सु शंसा प्रशंसा यस्य तस्य (सोमस्य) अमृतस्य (कलशः) जलपात्रम् (धृतः) स्थापितः (देवाः) विद्वांसः (संगत्य) मिलित्वा (यत्) यदा (सर्वे) (ऋषभम्) (व्यकल्पयन्) विविधं कल्पितवन्तः ॥