Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 5 / 15

ए॒तास्त्वा॒जोप॑ यन्तु॒ धाराः॑ सो॒म्या दे॒वीर्घृ॒तपृ॑ष्ठा मधु॒श्चुतः॑। स्त॑भान पृ॑थि॒वीमु॒त द्यां नाक॑स्य पृ॒ष्ठेऽधि॑ स॒प्तर॑श्मौ ॥ 15॥

Veda : Atharvaveda | Kand : 9 | Sukta : 5 | Paryay : | Mantra No : 15

In Hindi:

ऋषि : भृगुः | देवता : अजः पञ्चौदनः | छन्द : त्रिष्टुप् | स्वर :

विषय : ब्रह्मज्ञान से सुख का उपदेश।

पदपाठ : ए॒ता: । त्वा॒ । अ॒ज॒ । उप॑ । य॒न्तु॒ । धारा॑: । सो॒म्या: । दे॒वी: । घृ॒तऽपृ॑ष्ठ: । म॒धु॒ऽश्चुत॑: । स्त॒भा॒न् । पृ॒थि॒वीम् । उ॒त । द्याम् । नाक॑स्य । पृ॒ष्ठे । अधि॑ । स॒प्तऽर॑श्मौ ॥५.१५॥

पदार्थ : (अज) हे जीवात्मा ! (त्वा) तुझको (एताः) ये सब (सोम्याः) अमृतमय, (देवीः) उत्तम गुणवाली, (घृतपृष्ठाः) प्रकाश [वा सार तत्त्व] से सींचनेवाली, (मधुश्चुतः) मधुरपन बरसानेवाली (धाराः) धारण शक्तियाँ (उप) आदर से (यन्तु) प्राप्त हों। (सप्तरश्मौ) व्याप्त किरणोंवाले, यद्वा, सात प्रकार की [शुक्ल, नील, पील, रक्त, हरित, कपिश और चित्र] किरणोंवाले सूर्य [पूर्ण प्रकाश] में (नाकस्य) सुख के (पृष्ठे) पीठ [आश्रय] में (अधि) अधिकारपूर्वक (पृथिवीम्) पृथिवी (उत) और (द्याम्) अन्तरिक्षलोक को (स्तभान) सहारा दे ॥१५॥"

भावार्थ :

टिप्पणी :१५−(एताः) (त्वा) त्वाम् (अज) हे जीवात्मन् (उप) आदरेण (यन्तु) प्राप्नुवन्तु (धाराः) धारणशक्तयः (सोम्याः) अ० ३।१४।३। अमृतमय्यः (देवीः) दिव्यगुणयुक्ताः (घृतपृष्ठाः) अ० २।१३।१। प्रकाशेन सेचयित्र्यः (मधुश्चुतः) अ० ७।५६।२। माधुर्य्यस्य क्षरणशीलाः (स्तभान) दृढीकुरु (पृथिवीम्) पृथिवीस्थपदार्थानित्यर्थः। (उत) अपि च (द्याम्) अन्तरिक्षस्थान् पदार्थानित्यर्थः (नाकस्य) सुखस्य (पृष्ठे) आश्रये (अधि) अधिकृत्य (सप्तरश्मौ) सप्यशूभ्यां तुट्च। उ० १।१५७। षप समवाये-कनिन् तुट् च, यद्वा, क्त प्रत्ययः। सप्तः सृप्ता संख्या, सप्तादित्यरश्मयः-निरु० ४।२६। सप्तनामादित्यः सप्तास्मै रश्मयो रसानभिसन्नामयन्ति सप्तैनमृषयः स्तुवन्तीति वा-निरु० ४।२७। व्याप्तकिरणे, यद्वा शुक्लनीलपीतादिवर्णाः सप्तकिरणाः सन्ति यस्मिन् तस्मिन् सूर्यलोके ॥